________________
आत्मनोऽनुमानागम्यत्वम् । न जड़त्वाविशेषेऽपि कर्मादौ समवैति चेत् ।
न द्रव्यत्वाविशेषेऽपि गन्धः स्पृशति पावकम् ॥ तस्मान्न प्रत्यक्ष आत्मा नापि स्वतश्चेतयितेति स्थितम् ।
नैयायिकमतेनात्मनः प्रत्यक्षत्वोपपादनम्स्वयूथ्यास्तु के चिदाचक्षते-यदेकस्य कर्तृत्वकर्मत्वमनुपपन्नमित्यप्रत्यक्ष. आत्मष्यते तदयमनुमानेनापि कथं ग्रहीष्यते ?
आत्मानमात्मनाऽऽत्मैव लिङ्गादनुमिनोति हि । तत्र नूनमुपेतव्या कर्तृता कर्मताऽस्य च ।। तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् । तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु । देहादिव्यतिरिक्तश्च यथा लिङ्गन गम्यते ।
तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥ न चात्मनः किं रूपं यत्प्रत्यक्षेण साक्षाक्रियते ? यद्येवं सुखादेरपि किं रूपं. यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ?
नन्वानन्दादिस्वभावरूपं प्रसिद्धमेव सुखादेः, तर्हि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान्,
सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥ अपि च
ज्ञातृज्ञानविशिष्टार्थग्रहणं किल भाष्यकृत् । स्वयं प्रादीदृशत्तच्च किं वा युक्तमुपेक्षितुम् ॥ विशेष्यबुद्धिमिच्छन्ति नागृहीतविशेषणाम् । पूर्व चाननुभूतस्य स्मरणं नावकल्पते ॥ न चानुमानतः पूर्व ज्ञात्वाऽऽत्मानं विशेषणम् ।
तद्विशिष्टार्थबुद्धिः स्यात् स्मरणानवधारणात् ॥ तस्मात्प्रत्यक्ष आत्मा।
सामानाधिकरण्यं च स्मरणानुभवादिषु । अनुसन्धीयमानं यद् दृश्यते तत्कथं भवेत् ॥
आत्मनोऽनुमानगम्यत्वनिरूपणम् - पूर्वमहममुमर्थमनुभूतवानहमेवाद्य पुनरनुभवामीति तुल्यविषयतावत्तुल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुमप्यात्मा न शक्यते