________________
न्यायमअर्याम् । नत्वमपि तस्य नैसर्गिकमेव न करणोपजनितचितियोगनिबन्धनम् , चिद्योगाद्धि चेतनत्वे घटादावपि तत्प्रसङ्गो न चास्ति नियमहेतुरनेककारकपरिघट्टिततनुरपि चितिरात्मानमेव ज्ञातारं करोति न कारकान्तरमिति, तस्मात्स्वत एव चित्स्व. भावताऽस्य भद्रिका, तदिदमात्मप्रकाशनं संविद्वदवगन्तव्यम् , यदाहुः 'संवि.सं. वित्तयैव संवेद्या न वेद्यतयेति । नास्याः कर्मभावो विद्यत इत्यर्थः एवमात्मा प्राहकतयैव प्रकाशते न ग्राह्यतयैवेति तद्वैरूप्यस्य चोदनमनुपपन्नमिति,
एतदपि न चतुरश्रम्-अपरसाधनमिति कोऽर्थ उपायान्तरनिरपेक्षमेव प्रकाशमानमात्मतत्त्वमास्त इति, तद्युक्तमकरणिकायाः प्रतीतेरदृष्टत्वाद्, अपूर्व च तकिमपि यथाऽभ्युपगतं प्रमाणातिरिक्तमेव प्रमाणं स्याद्, न च नियमकारणमत्र पश्यामः तथा प्रकाशमानः स एवात्मा प्रकाशते न परात्मेति, प्रकाशमानत्वेनात्मनो नूनमनुभूयमानता वाच्याऽनुभूयमानता चानुभवकर्मत्वमितरथाऽस्याः प्रत्यक्षतवन स्यात् ।
अथोच्यते-न प्रत्यक्ष आत्मा किं त्वपरोक्षइति नेदमर्थान्तरवचनं शिशवएवं प्रतार्यन्ते न प्रामाणिकाः, प्रत्यक्षश्च न भवत्यपरोक्षश्व भवतीति चित्रम् प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत् , तीपरोक्षत्वमपि माभूत् । प्रकाशत्वादपरोतत्वमिति चेन्न, दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्यमाणस्य प्रकाशमानत्वा. योगात्तस्मात्प्रकाशते चिदात्मा नूनमनुभूयेतापीति बलात्कर्मत्वमपरिहार्यमतश्च तदवस्थैव द्वैरूप्यचोदना, प्रकाशज्ञानपक्षं च प्रतिक्षेप्स्यामः, स चात्मन्यपि तुल्योन्यायः, कल्पनाद्वैरूप्यं च भवतामात्मा च स्वप्रकाशः संविञ्च स्वप्रकाशेति, न च निपुणमतिरपि विवेकमीहशमुपदशयितुं शक्नोति भवान् इयं स्वप्रकाश. फलरूपा संविद्, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति चित्रं चेदं यत्तयोर्द्वयोः प्रकाशयोरन्तराले तयापारः परोक्षज्ञानाख्यः संपन्न इति,
ननु घटमहं जानामीत्यत्र त्रयप्रतिभासो घटमिति विषयः प्रकाशते; अहमित्यात्मा; जानामीति संविदिति, उक्तमत्र घटं जानामीति ज्ञानविशेषणविषयप्रतिभासः, अहमिति तु शरीरे ज्ञातृत्वभ्रम एकस्यात्मनो ग्राह्यग्राहकत्वा"यदपि स्वतश्चेतनस्वभावत्वमात्मनः कथ्यते तदपि न सोपपत्तिकम् ,
सचेतनश्चिता योगात्तद्योगेन विना जड़ः ।
नार्थावभासादन्यद्धि चैतन्यं नाम मन्महे ॥ यदि च स्वत एवार्थावभाससामर्थ्यपक्षे च सर्वस्य सर्वज्ञताऽऽपत्तिरतोऽवश्यं ज्ञानसमवायनिबन्धनमेवात्मनश्चेतयितृत्वं, न च घटादिभिरतिप्रसङ्ग आशङ्कनीयः, पदार्थस्वभावोपनतस्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वाशेतनादिक्रियाः कर्मसमवायिन्यो न भवन्ति गमनादिक्रियास्तु कर्तृसमवायिन्य एव न च वस्तुशक्तिरनुयोज्या भवति,
नुपपत्तेः