________________
आत्मन्याक्षेपः ।
केति, अन्यत्र तु शुद्धविषयग्रहणमेव भवति घटोऽयमिति — तदेतदपि सरल -- मतिप्रतारणमात्रम्, तथा हि घटोऽयमित्यत्र घटमात्रप्रवरणैव बुद्धि; इयांस्तु विशेष: पूर्व केवलं घटप्रहणमधुना तु ज्ञानविशिष्टघटावमर्श इति ।
अहंप्रत्ययस्य शरीरालम्बनत्वेनात्मनः परोक्षत्वम्
विभज्यमानायां प्रतीतौ घटोऽयमिति तावद्विषयग्रहणं, जानामीतिः ज्ञानग्रहणमपि भवतु नाम, अहमिति तु कस्य ग्रहणम् ? न चैकस्यामेव प्रतीतावंशविभागेन प्रामाण्यमप्रामाण्यं वा वक्तुं युक्तम् — घटमिति जानामीति च प्रमाणमहमिति तु न प्रमाणमिति, तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः, उक्तमंत्र नैकस्यां प्रतीतावात्मनः कर्मता कर्तृता च स्याद्, यस्तूपाधिस्त्वनयोर्ने तुमुपक्रान्तः सोऽयं न घटते घटप्रवणत्वादहं जानामीतिप्रतीतेर्विभज्यमानत्वेऽपि घटमिति जानामीति चांशद्वयं विषयनिष्ठमेव जातम् - अहमिति त्वयमंशो यद्यात्मविषयो दृश्यते तर्हि स एव शुद्धोऽवशिष्यते ग्राह्यग्राहकश्चेति नावस्थाकृतस्तद्भेदः समर्थितः स्याद्, भेदाभावेन चैकस्यैव ग्राह्यग्राहक भावमुपाधि(१) मभिदधंता विज्ञानवादवर्त्मसंश्रितं स्यात्तस्मादहं प्रत्ययस्य ग्राहकाद्भिन्नं ग्राह्यमभिधित्सता शरीरमेव प्राह्यमभ्युपगन्तव्यं ज्ञानसामानाधिकरण्यानुपपत्तेश्च वरमस्य ना त्मालम्बनता, अत एव कृशश्यामसामानाधिकरण्यधीः शरीरालम्बनत्वस्य साक्षिणी न विरोत्स्यते,
ननु ममेदं शरीरमिति भेदप्रतिभासात्कथमहं प्रत्ययः शरीरालम्बन: स्याद् ? भोः साधो ! नैवंविधेषु प्रत्ययेषु विश्वास्यत्वमर्हसि ममात्मेत्यपि भेदप्रत्ययस्य दर्शनादवस्थाभेदादिना यथा तथा तत्समर्थनमास्थीयते त दिह शरीरालम्बनत्वेऽपि सैव सरणिरनुसरिष्यते; तस्मादहं प्रत्ययः शरीराल म्बन एवेति, स च ज्ञानादिसमानाधिकरणों मिथ्या स्थूलादिसमानाधिकर णस्तु सम्यगिति ये तु मम शरीरं ममात्मेति च बुद्धी ते द्वे अपि मिथ्या ममप्रत्ययस्याहं प्रत्ययवदात्मानालम्बनत्वाच्छरीरे च भेदानुपपत्तेः,
मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते ।
शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥ तस्मादहङ्कारममकारयोर्द्वयोरप्यविषयत्वादात्मा परोक्ष इति सिद्धम् । अपरे पुनराहुः - न ग्राह्यग्राहकरूपोभयसम्पत्तेरेकस्य कर्मत्वं कर्तृत्वं च युगपदात्मनो मन्यामहे किन्तु चितिशक्तिस्वभावमपरसाधनमपरोक्षमात्मतत्त्वं प्रचदमहे न ह्यात्मा जन्येन (२) ज्ञानेन घटादिरिव प्रकाशतेऽपि तु स्वत एव प्रकाशते । चेत
(१) 'अनुपाधिकम्' इति ख०पु०पा० । उपाधिकृत मिति तु युक्तः प्रतिभाति । (२) 'अन्यजन्येन' इति ख० पु० पाठः ।