________________
न्यायमअर्याम
न हि ज्ञानसुखेच्छाऽऽदियोगः कर्मेन्द्रियादिषु । न च ज्ञानादिशून्येऽर्थे जानामीत्यादिसंविदः ॥ ज्ञानमात्रावभासोऽपि वारितः प्रत्यभिज्ञया। ज्ञात(१)वानहमेवादावहमेवाद्य वेद्मि च । नोत्तरस्य न पूर्वस्य न ज्ञानक्षणयोद्वयोः । न संतानस्य चतस्मिन्प्रत्ययेऽस्त्यवभासनम् ॥ . नोत्तरो ज्ञातवान्पूर्व पूर्वो जानाति नाधुना ।
न द्वयोर्द्वयमप्यस्ति संतानस्तु न वास्तवः ।। ----श्रवस्तुत्वाञ्च नासौ पूर्व किं चिज्ज्ञातवान्न चाद्य किं चिज्जानातीति, तस्मादहमेव यो ज्ञातवानहमेवाद्य जानामीत्यस्मिन्प्रत्यये ह्यश्चाद्य चानुवर्त्तमानो ज्ञाता प्रतीयत इति गम्यते, न चासौ कायो;(२) बाल्याद्यवस्थाभेदेन नानात्वादचेतनत्वाच, एवं सप्रत्यभिज्ञाहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे सोऽयं स्थलादिसमाना. धिकरणोऽहंप्रत्ययस्तदभेदोपचारेण शरीरे वर्तमानो मिथ्येति कल्पयिष्यते, न पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाहंप्रत्ययस्य मिथ्यात्वकल्पनं युक्तमबाधि. तत्वाद्, न खल्वहं जानामीति प्रत्ययः केन चिदल्पीयसा दोषरेणुना धसरीक. त पार्यते तदस्यात्मैव मुख्यो विषयस्तदतिरिक्तं वस्तु भाक्तमिति; तस्मादहं. प्रत्ययगम्यत्वादात्मा प्रत्यक्ष इति ।
ज्ञानात्मवादिखण्डनम्.... अत्र वदन्ति--शब्दमात्रोच्चारणमेतदहं जानाम्यहमिच्छाम्यहं सुख्यहं. दुःखीति न तु ज्ञानादिस्वरूपातिरिक्तस्तदाश्रयः कश्चिदेतासु बुद्धिषु परिस्फुरतीति, कथमेकस्यामेव संविदि कर्ता च कर्म चात्मा भवेत् ?
ग्राह्यप्राहकतैकस्य ज्ञानस्यापाकरिष्यते ।
त्वयाऽपि नेष्यते चेति तथा सत्यात्मनोऽपि सा॥ .. - यथावस्थाकृतं भेदमवलम्ब्य ग्राह्यग्राहकभावसमर्थनमकस्यैवात्मनः कृतंकिल द्रव्यादिस्वरूपमात्मनो ग्राह्यं ज्ञातृरूपं च ग्राहकमिति, तदनुपपन्न, द्रव्या. दिस्वरूपे प्राधे न ज्ञातरि ग्राहकता साधिता स्याद्, आत्मवर्तिनोऽपि द्रव्यादिरूपस्य घटादितुल्यत्वाद्,
यदपि निपुणंमन्यैरुच्यते भवतु ज्ञातृतव (३)ग्राहिका तथाऽपि विषयोपा. धिकृतोऽस्त्येव भेदः, घटावच्छिन्ना हि ज्ञातृता ग्राह्या शुद्धैव तु ज्ञातृता प्राहि
(१) 'ज्ञातव्यमह' ख० पु० पाठः । (२) 'कायो' इत्यस्य स्थाने 'वयो इति । ख० पु० पाठ सचायुक्तः । (३) ज्ञातृवैव-ज्ञानमेव ग्राहकमित्यर्थः ।