________________
२
आत्मन्याक्षेपः। अशेषदुःखोपरमस्त्वपवर्गोऽभिधीयते ॥ तदित्थमेव द्वादशविधं प्रमेयमतिगहनसंसारमारवस्थल (१) प्रभवतीव्रसंतापनिर्वापणमहाहदतामुपयातीति तदेवादेशाहमिति सिद्धम ।
शरीरात्मवादिचार्वाकमतम् । विरक्तसंकथास्तावदसंजातफलोचिताः। आत्मैव त्वस्ति नास्तीति कथं न परिचिन्त्यते ।।.. तथा च लोकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात्कायानात्माऽन्योऽस्तीति मन्वते ।। . न तावदात्मा प्रत्यक्षतो गृह्यते घटादिवद् बाह्येन्द्रियेण, सुखादिवन्मनसा परिच्छेतुमशक्यत्वाद्, अनुमानं तु न प्रमाणमेव चार्वाकाणां, न चात्मसि. द्धौ किंचन लिङ्गमस्ति । ज्ञानादियोगस्तु भूतानामेव परिणामविशेषोपपादितश क्त्यतिशयजुषां भविष्यति, यथा गुडपिष्टादयः प्रागसतीमपि मदशक्तिमासादितसुराकारपरिणामाः प्रपद्यन्ते तथा मृदाद्यवस्थायामचेतानान्यपि भूतानि शरीराकारपरिणतानि चैतन्यं स्प्रक्ष्यन्ति । कालान्ते स्वव्याध्यादिना विशेषमयजहति तान्येव चैतन्यशून्यतामुपयास्यन्ति, चैतन्यत्वानपायाच्च तावन्तं कालं. तान्येव स्मृत्यनुसंधानादिव्यवहारनिवहनिर्वाहणनिपुणतामनुभविष्यन्तीति कि. मनुमानक आत्मा स्याद्, आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मा नमवबोधयितुं शक्यन्ते, अयमपि चागमोऽस्त्येव 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ती'ति तदात्मनो नित्यस्य परलो. किनोऽभावात्कृतमेताभिरपार्थकपरिश्रमकारिणीभिः परलोककथाभिः ।
मीमांसकमतेनात्मप्रत्यक्षत्वनिरूपणम्तत्र प्रत्यक्षमात्मानमौपवर्षाः (२)प्रपेदिरे।
अहंप्रत्ययगम्यत्वात्स्वयूथ्या (३)अपि के चन ।। अस्त्ययमहंप्रत्ययः कश्चिच्छरीरसमानाधिकरणः स्थूलोऽहं कृशोऽह, कश्चिज्ज्ञातृसमानाधिकरणो जानाम्यहं स्मराम्यहमिति, तत्र स्थूलादिसमानाधिक. रणस्तावदास्तामहंप्रत्ययः,
ज्ञानेच्छासुखदुःखादिसामानाधिकरण्यभाक् ।
यस्त्वहंप्रत्ययस्तत्र नात्मनोऽन्यः प्रकाशते ।। (१) मरोरिदमारवं तच्च तत्स्थलं मारवस्थलं संसार एव मारवस्थलं संसार मारवस्थलं, संसार एव मदेश इति यावत् तत्राधिकः सूर्यकृतस्तापो भवतीति ।।
(२) उपवर्षो मीमांसासूत्रवृत्तिकारः पाणिनिगुरोर्वर्षस्य कनिष्ठभ्राता, औप. वर्षाः =मीमांसकाः। (३) नैयायिकैकदेशिनः ।