________________
न्यायमअर्याम्
ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा।
तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ।। तञ्च द्वादशविधमेव भवति न न्यूनमधिकं वेति समाहित इत्थं भवति वि. भागाक्षेपः, कुतः पुनरेष प्रमेयविशेषो लभ्यते, निःश्रेयसार्थत्वाच्छास्त्रस्य, प्रमेयज्ञानस्य(१) प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव मिथ्याज्ञाने निवृत्त्यादिक्रमेणापवर्गे हेतुत्वप्रतिज्ञानात् तथाविधस्य चापवोंपायत्वस्यात्मादिध्वेव भावात्, ___ भवत्वेवं, सूत्रस्य तु कथमीशप्रमेयविशेषसमर्थने सामर्थ्य-विशेषात्तशब्दप्रयोगसामर्थ्याच्च ? सत्यमाकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयंभवति तत्तु न सप्रयोजनम् , आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफल दुःखापवर्गास्तु प्रमेयं निःश्रेयसहेतुत्वादित्याशयः, तदित्थमेष तुशब्दो निःश्रेय. साङ्गभूतप्रमेयान्तरपरिहारद्वारेण विशिष्टमात्मादि प्रमेयमिह सूचयति,
तवादशविधत्वेऽपि हेयोपादेयभेदतः । द्विधोच्यते मुमुक्षूणां तथैव ध्यानसिद्धये ॥ तत्र देहादिदुःखान्तं हेयमेव व्यवस्थितम् । उपादेयोऽपवर्गस्तु द्विधाऽवस्थितिरात्मनः ।। सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥ आत्मनो हि भोगाधिष्ठानं शरीरं, भोगसाधनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः,भोगो बुद्धिः, आन्तरं हि भोगकारणं मनः, प्रवृत्तिः पुण्यपापात्मिका, रागा. दयश्च दोषाः शरीरादिजन्महेतवः, एतत्कृतश्च शरीरादियोगाध्यासः प्रेत्यभावः, एतत्कृतमेव च संसारे सुखदुःखरूपं हि फलं, तच्च द्विविधमेव-विवेकवतः सर्व दुःखमेवेति, एवं शरीरादिदुःखान्ते हेयतयैव भावनीयम् , एतदनुषक्तश्चात्माऽपि तथैव, एतद्वियुक्तस्त्वात्मवापवर्ग उच्यते, स चोपादेयतया भावनीय इत्यत ए. वात्मपदसंगृहीतस्याप्यस्य पुनर्निर्देशः स हि परमः पुरुषार्थ इति, एवमिदं द्वादशंभेदं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन्नभ्यासात्तद्विषयविपरीतग्रहात्मकमिथ्याज्ञानं क्षिणोति,
तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते । रागद्वेषादयो दोषास्तन्मूलाः क्षयमाप्नुयुः ॥ क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका। तदभावान्न तत्कायें शरीराद्यपजायत ।
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः । (१) 'प्रमेयस्य' इति ख० पु० पाठः ।