________________
श्रीविश्वेश्वरः शरणम्। जयन्तभट्टकृतन्यायमञ्जरी। तत्र प्रमेयप्रकरणम् ।
प्रमेयपरीक्षारम्भः। . . एवं प्रमाणपदार्थे परीक्षिते सति यदर्थ तत्परीक्षणं तत्प्रमेयमिदानी दर्श यितुमाह
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ॥(१)
प्रमाणवदिहाप्येतत्सूत्रं व्याख्यायि सूरिभिः । एवं विभागसामान्यलक्षणप्रतिपादकम् ।। प्रमेयश्रतिरात्मादिपदपर्यन्तवर्तिनी।
तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥ यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्येवकारादिश्रुतिमन्तरेणापि शब्दसामर्थ्यात्त एव भोजनक्रियायोगिनोऽवगम्यन्ते नान्ये तथहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधोऽवधार्यते, - ननु कथं द्वादशविधमेव प्रमेयमुपपद्यते यावता समानतन्त्रे (२)पृथिव्यादीनि नव द्रव्याणि, रूपादयश्चतुर्विशतिर्गुणाः, उत्क्षेपणादीनि पञ्चकर्माणि, परापरभे. देन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, एकः समवाय, इति षट्पदार्थीमनुक्रम्य तवान्तरविशेषेरानन्त्यं प्रमेयस्योपवर्णितमिति ?
उच्यते-किं पुनरिह प्रमेयं विवक्षितमिति तत्सामान्यलक्षणं तावत्परीक्ष्यताम् ? आह-सूक्तमिदं कस्यापि 'कर्णे पृष्टः कटिं चालयती'ति द्वादशविधत्व. माक्षिप्तं न प्रतिसमाधत्ते भवान् प्रमेयस्य सामान्यलक्षणं तु परीक्षत एव,
उच्यते-अलं केलिना, एतदेवात्र प्रतिसमाधानं भवति न हि प्रमाणविषयमात्रमिह प्रमेयमभिमतमेवंविधस्य प्रसिद्धत्वेन लक्षणानहत्वात् प्रमाण एव ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति ज्ञायत एव किं तेन लक्षितेन; तस्माद्वि. शिष्टमिह प्रमेयं लक्ष्यते,
(१) गौ० सू० अ० १ आ० १ सू०९। (२) कणाददर्शने ।