________________
न्यायमअाम् व्याकरणस्यावश्याध्येयत्वनिरूपणम्तस्मात्पवित्रात्सर्वस्मात्पवित्रं जनबहुमतमधिगतचतुर्वर्गमग्राम्यमात्मान क. तुमभ्येतव्यं व्याकरणम् , अाह
आपः पवित्रं परमं पृथिव्या अद्भ्यः पवित्रं परमं हि मन्त्राः । तेषां च सामय॑जुषां पवित्रं महर्षयो व्याकरणं निराहुः ।। इहाप्युक्तम्
रूपान्तरेण देवास्ते विहरन्ति महीतले ।
ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥ किंच
घरं हि जातास्तिमयो गभीरे जलाशये पङ्किनि नित्यमूकाः । न मानवा व्याकरणप्रयोगबुद्धसंस्कारविहीनवाचः ॥
मनुना च पङिक्तपावनत्वेनाधिगतव्याकरण मीमांसकश्च स्वस्मृतौ पठितो "यश्च व्याकुरुते वाचं यश्च मीमांसते ऽध्वरम्" इति । पुष्पदन्तो ऽप्याह
भ्रष्टः शापेन देव्याः शिवपुरवसतेर्वन्द्यहं मन्दभाग्यो भाव्यं वा जन्मना में यदि मलकलिले मर्त्यलोके सशोके । स्निग्धाभिर्दुग्धधारामलमधरसुधाबिन्दुनिष्यन्दिनीभिः कामं जायेय वैयाकरणभणितिभिस्तूर्णमापूर्णकर्णः ।। एवं व्याकरणाभियोगसुलप्रौढाक्तिमिः पण्डितै. रक्लेशेन विचित्रवैदिकपदव्युत्पत्तिरासयते । अन्यैरप्युपबृंहिते दृढतरासङ्गनिरुक्तादिभिः
दे स्वार्थधियं वितन्वति कुतः प्रामाण्यभङ्गो भवेत् ।। अङ्गभावनिरपेक्षयैव नः प्रत्ययो यदिह शब्दविधया। वैदिकार्थविषयो विधीयते तत् परास्तमितरेतराश्रयम् ॥ आहतमस्खलितव्यवहार गिमतं श्रुतसङ्गिभिरायः । व्याकरणं कथमेतदनादि प्राकृतलक्षणतौल्यमुपेयात् ।।
आगमप्रामाण्यापसंहारःएवं मृषात्वमुदगीयत येन येन च्छिद्रेण कल्पितपिशाचरवैरनार्यैः । तत्तत्समप्रमपसारितमित्यतश्च प्रामाण्यमप्रतिहतं स्थितमागमानाम् ।। इति प्रमाणानि यथोपदेशमेतानि चत्वारि परीक्षितानि । प्रवन्वतां संव्यवहारमेभिः सिध्यन्तु सर्वे पुरुषार्थसार्थाः ॥ इति श्री भट्टजयन्तकृतौ न्यायमचर्या षष्ठमाहिकम् ॥
समाप्तं न्यायमञ्जर्याः प्रमाणप्रकरणम् ॥