________________
३९१
प्रमाणप्रकरणम् हि दर्शपूर्णमासप्रयोजनादन्यत्प्रयाजादिप्रयोजनमन्विष्यते इति मन्वानः स्वयं सूत्रकृत्प्रयोजनं नाख्यत् ,
व्याख्यातारस्तु मुख्यानुषङ्गिकभेदभिन्न प्रयोजनप्रपञ्चं प्रयोजनातिशयव्यु. त्पादनद्वारकश्रोतृजनोत्साहपरिपोषसिद्धये दर्शितवन्त इति न कश्चिदुपलभ्यः ।
कथं पुनरङ्गता व्याकरणस्य कमुपकारमावहत इति, क एष पर्यनुयोगो वेदवेदाङ्गानामनादित्वादीश्वरप्रणीतत्वाद्वा पर्यनुयोजनानुपपत्तेः, संक्षेप. विस्तरविवक्षया हि पाणिनिपिङ्गलपराशरप्रभृतयः तत्र तत्र कर्तारः प्रसि. द्धिं गताः, परमार्थतस्तु वेद इव तदर्थोपि तदर्थावगमो ऽपि प्रायो हि सर्व एवा. नादयः प्रजापतिनिर्मिता वेत्येवमपर्यनुयोज्या एक, अत एव वेदैस्तदङ्गश्च सह चतुर्दश विद्यास्थानानि गण्यन्ते
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । ___पुराणं धर्मशास्त्राणि विद्या घेताश्चतुर्दशेति ॥
ये ऽपि शब्दसंस्कारादिविकल्पाः कृताः ते ऽपि बहुभाषित्वयोगमात्रनिर्मिता एव न वस्तुस्पृशः, के वा तद्विपरीताः कश्च तेषां संस्कार इति, न चैतावता शिष्टप्रयोगमूलमेव व्याकरणं ब्रमो वेदवदनादित्वस्य दर्शितत्वादन्धपरम्पराप्रसदोषपरिजिहीर्षया तु शिष्टप्रयोगमूलत्वमभिधीयते वैदिकस्मृतेरिवान्वयव्यतिरे. कमूलत्वम् , ये हि व्याकरणस्मृतौ साधव इत्यनुशास्यन्ते शब्दास्ते शिष्टस्तथैव प्रयुज्यमाना दृश्यन्ते हरीतकीभक्षणादिवारोग्यम , न तु शिष्टेभ्यः शब्दसमा. म्नायमधिगम्य पाणिनिर्ग्रन्थं कृतवान् न चान्वयव्यतिरेकाभ्यां द्रव्यशक्तीरवग. त्य चरकं प्रणीतवानिति शिष्टानामनादित्वाभिधानात् , एतेनेतरेतराश्रयमपि प्रत्युक्तम् , न हि शिष्टेभ्यो व्याकरणस्य प्रभव इति । ___ यत्तु शिष्टानामपि प्रमादित्वमुपवणितं किल पुराणैर्मुनिभिरपि बहुभिरपशब्दाः प्रयुक्ता इति तत्राभियुक्तैः तदपनयनमार्गः प्रदशित एव स तु ग्रन्थवि. स्तरत्रासादिह न प्रतन्यते ।
यदपि पाणिनितन्त्रे धातुप्रातिपदिककारकाद्यनुशासनविसंष्ठलत्वमनेकशाख. माख्यापितं तदपि निपुणमतिभिः प्रतिसमाहितमेव, न च तेषामपि दोषोत्प्रेक्षणसंभवादनवस्था निपुणदर्शितमार्गे विप्लवकारिवैतण्डिकतस्करविकासानुपपत्तेः । __एतेन शोभाचीर्णवरेण्यगणेयभ्राजिष्णुकान्दिशीकादिशब्दासंग्रहस्मृतिसंदेहविपर्ययादिदूषणान्यपि कश्चिदुत्प्रेक्षितानि प्रतिक्षिप्तानि मन्तव्यानि तानि च तैरेव समाहितानीति,
बार्हस्पत्यमपि सूत्रमसूत्रमेवेत्यलं स्वमनीषिकाकल्पितानल्पदुर्विकल्पाडम्बरोत्तम्भितालीकपाण्डित्यगर्वगलग्रहगद्गदगिरामुद्वेगकारिणानेन वस्तुविचारेण, सर्वथा प्रकृतिनिर्मलमत्युदारं व्याकरणाडम्बरमेवंप्रायैः परिवादपांसुपार्न मनागपि दूरीकत पार्यते इति सिद्धम् ,