SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जयम् कुत्सितसङ्कीर्णवर्णविभागविनिहित हृदयोद्वेगाः ग्राम्यगिरः इति प्रत्यक्षमुपलभ्य - ते, स चायमसङ्करः प्रयोगो व्याकरण साहायकं प्रतिपद्यमानः साधुत्वावगमोपायतां भजत एवेति सर्वथा नाप्रमाणकः साध्वसाधुशब्दविभाग इति, ३९० एवं च ब्राह्मणेन न म्लेच्छित नापभाषितवै म्लेच्छो ह वा एष यदपशब्द इत्याद्यागमवचनान्यपि तदुपयोगीनि व्याख्यातवाक्येन भवन्ति, यत्पुनर्नियमशास्त्रे साधुभिर्भाषितव्यमसाधुभिर्नेत्यस्मिन्नपभाषितं तदपि न पेशलम्, न हि नीरपानेापदेशकृशानुपान निषेध इवानवकाशमिदं शास्त्रमपशब्दानामेव नार्यजन वदनप्रतिष्ठानां यथातथार्थप्रतीत्युपायत्वदर्शनपूर्वक प्रयोगप्रसङ्गानपायेन प्राप्तौ सत्यां प्रतिषेधस्यावकाशसम्भवात्साधुभिरेव भाषणस्य भा. जनप्राङ्मुखतादिवन्नियमादृष्टसाफल्यात् । यदपि साध्वसाधुस्वरूपानवधारणात्प्रतिपदोपदेशाद्य शक्यत्वमाशङ्कितं तदपि प्रतिहतं यादृगिदं प्रत्यक्षानुमानगम्यं साध्वसाधुशब्दस्वरूपं व्याख्यातं तदवलम्बनपुरःसरनियमकरणस्य सुशक्यत्वादत एव साधुत्वं नाम किमुच्यते इति द्विकल्पितं तद्विहितमेव प्रतिभवति, यतो व्याकरणलक्षणानुगमविशेत्रित्वं वाचकत्वं साधुत्वमित्युक्तं तच्च स्ववर्गानुगामिगोत्वादिवत्सामान्यं वा भवतु पाचकत्वादिवदसत्यपि सामान्ये ऽवच्छेदकत्वं भवतु सर्वथा तत्कृतौ निर्वहति सर्वो व्यवहारः वर्गीकरणे हि तदेव कारणमिति । अथवा पुनरस्तु वाचकत्वमेव साधुत्वं तथापि तत्र नियमशास्त्रं साधुभि रेव भाषितव्यमिति प्रवर्तितुमर्हत्येव यद्यप्यसाधारवाचकत्वात्प्रयोगप्रसङ्गो नास्ति तथापि साधुस्मरणसरणिसमुपारुढवाचकत्वशङ्कोपप्लवमानप्रसङ्गनिवृत्तये नियमसाफल्यं भविष्यति, विधिफलत्वेन नियमस्य फलतः परिसंख्याकार्यमसाधुशब्दनिवृत्तिः स्थास्यतीति सो ऽपि न दोषः । यदपि परार्थत्वात्फलश्रुतिमर्थवादीकुर्वता पुण्यपापफलत्वं दूषितं तदपि न सांप्रतम्, अर्थप्रतीतिपारायै सत्यपि प्रयोगनियमापूर्व द्वारक पुण्यपापफलत्वसंभवात्, पर्णमय्यादिष्वपि तथा प्रसङ्ग इति चेद् भवतु को दोषः, नैयायिकैरेकाकारनिरवलम्बनार्थवादपदोपदेशानभ्युपगमात् शब्दशक्तितात्पर्यालोचनमपि तैरन्यथा क्रियतइति प्राग्विचारितमिति तिष्ठत्वेषा कथा, तेन कामधुग्भवतीत्या दिवचनान्यपि व्याकरणाध्ययनफलप्रकटनपटूनि तथैव नेतव्यानि । यदपि सूत्रकृता स्वयं प्रयोजनं किमिति न व्याहृतमिति व्याहृतं तद्भ्यदूषमेव, व्याकरणं हि वेदाङ्गमिति प्रसिद्धमेतदा हि सर्वतः आ च कुमारीभ्यः, वेदश्व यदि निष्प्रयोजनः स्वस्ति प्रजाभ्यः समाप्तानि दृष्टादृष्टफलानि सर्वकर्माणि जितं चातुर्वर्ण्य वायैरन्त्य जनपदवासिभिः म्लेच्छैः, अथ सप्रयोजनो वेदः सोऽङ्गवत्वादङ्गैः सहैव सप्रयोजनतां भजते इति केो ऽर्थः प्रयोजनान्तरचिन्तया, न " " "
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy