________________
प्रमाणप्रकरणम्
३८९
प्रसिद्धानुपूर्वीकवर्णगुणात्मकपदप्रतिभासस्तावदस्ति स च न संदिग्धो न बाधक विधूतधेर्यो नाशुद्धकरणजन्मा न कल्पनामात्रस्वरूप इति तत्र परिस्फटक्रमव.
र्णात्मकपदग्रहणमेव साधुत्वग्रहणं तद्विपरीतयथानिर्दिष्टदोषकलुषितशब्दग्रहणमेव चासाधुत्वग्रहणमिति प्रत्यक्षगम्ये एव साधुत्वासाधुत्वे इति ।
ननु यदि त्रिकरणकेनैव प्रत्ययेन साधुत्वासाधुत्वे प्रतिपत्तारः प्रतिपद्य न्ते व्याकरणाध्ययनवन्ध्यबुद्धया ऽपि प्रतिपद्यरन न च प्रतिपद्यन्ते तस्मान्न ते त इन्द्रियविषये इति,
नेप दोष . वैयाकरगापदेशसाहायकोपकृतोत्रेन्द्रियग्राह्यत्वाभ्युपगमात यथाब्राह्मणत्त्वादिजातिरुपदेशसव्यपक्षचक्षुरिन्द्रियग्राह्यापिन प्रत्यक्षगम्यतामा पज्ज्ञति, यथा ऽऽह न यगिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति, यथा वा सविकल्पकप्रत्यक्षप्रामाण्यसिद्धौ शब्दानुविद्धबोधे ऽपि प्रामाण्यमुपपादितमादौ किल संज्ञोपदेशिना पनसा ऽयमिति वृद्धवचसा चक्षुरिन्द्रियेण पनसज्ञानमुत्पद्यते सङ्केतकरणकाले तदुभयजमित्यव्यपदेशपदेन व्यपनीतं व्यवहारकाले पनसादि. ज्ञानमुपदेशस्मरणापेक्षचक्षुर्जनितमपि चाक्षुषमेवेति वर्णितमेवमिहापि व्याकर. गाकोविदोपदेशचिवश्रवणेन्द्रियप्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिव. तंते, यथा च बागा वादिजातिप्रतीतो कारणान्तरमुक्तं क चिदाचारतश्चापि सम्यग्राजाऽनुपालितादिति मन्वादिदर्शितानवद्यवानुसरणनिपुणनरपतिपरिपाल्यमानवर्णाश्रमाणां शङ्कितकृतककपटार्यवेशधशूद्रव्यभिचारे देशे विशिष्टाचारगम्या ऽपि ब्राह्मणत्वादिजातिभवत्येवमिहापि विशिष्टशब्दश्रवणेत्तरकालप्रवृत्तव्यवहारावगतार्थप्रतिपत्तिसहितं शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङ्गमव्यभिचारि तत्स्वरूपावधारणे कारणं भविध्यति, तदेवंलक्षणकमर्थप्रत्यायकं च शब्दस्वरूपं तत्साधुतया ऽवधृतमिति व्याविग्रहगोपपत्ते, शास्त्रमपि श्रतिस्मृतिरूपमधुशब्दप्रयोगापनतक्रतूपकारकरण. कस्वर्गादिफलसंयोगमुपदिशदपशब्दभाषणप्रभवप्रत्यवायप्रतिपादकं च वाग्योगविद् दुष्यति चापशब्दरित्यादि साधुत्वेतरपरिच्छेदे प्रमाणत्वं प्रतिपद्यते एव ।
आह कलब्जवत्तत्स्वरूपसिद्धौ सत्यां तद्विधिनिषेधयोः शास्त्रं क्रमते न नत्स्वरूपमेव विधत्ते स्वरूपस्य भावार्थत्वेन विधिविषयार्थत्वायोगादित्युकम , सत्यमुक्तं कि तु श्रुतिस्मृतिशास्त्रयोधर्माधर्मोपदेशिनार्यथोपवर्णितेनैव प्रकारंगा साध्वसाधुविषयविधिनिषेधपरत्वं तत्स्वरूपप्रतिपत्तिकर्तव्यतापरं तु विध्यपेक्षितं प्रमाणीभवत्येव, यदि वा पाणिन्यादिष्टस्मृतिद्रढिम्ना मूलभूतमाचमनविधिवद्वैदिकमपि तथाविधविधिवाक्यं कल्पयितुं शक्यमिति शास्त्रस्यापि न विषयः साधत्वम , शब्दवित्प्रयोगश्च सङ्कररहित एव, तथा हि अन्या एव लिरबरावर्णकमोदीगादारगम्भीपातयः सूकमा सूरिजम्यान्या एवं दुःश्रवाः