________________
३८८
न्यायमचर्याम् प्रत्ययादिव्यवहारे मन्दीभवति तेषु शक्तिकल्पनायामापत्तिः एवं च गवादय एवं वाचकशक्तेराश्रयो न गाव्यादयः, कथं तर्हि बहूनामधिगतव्याकरणतन्त्राणामे. भिरच्छिन्नो व्यवहारः, यथैव म्लेच्छानां म्लेच्छभाषाभिरक्षिनिकोचहस्तसंज्ञादिव्यवहारिणां वा स्वरुपायैः, किमक्षिनिकोचादीनामन्त्यजनपदवाचां नास्ति शक्तिः, ओमित्युच्यते, कथं तर्हि तेभ्यो ऽर्थप्रतिपत्तिनैसर्गिकी तेषां शक्ति - स्तीति ब्रमः, तत्स्वरूपस्याव्यवस्थितत्वेन निसर्गसिद्धिकशक्तिपात्रताऽनुपपत्तेः प्रतिपत्तिस्तु स्वकृतसमयमात्रनिबन्धना तेभ्यः, नैयायिकानां क वा न समयः प्रतिपरयुपायः सत्यं स त्वीश्वरप्रणीतः प्रथमसर्गात्प्रभृति प्रवृत्तो मीमांसकाभ्युपगतनैसर्गिकशक्तिसोदर्य एव न मादृशरचितपरिमितविषयसमयसमान: सच गवादिशब्देष्वेव प्राप्तप्रतिष्ठा न गाव्यादिषु, ते तु वर्णसारूप्यच्छायया गवादि. शब्दस्मृतिमादधानास्तदर्थप्रतिपत्तिहेतुतामुपगच्छन्तीति ।
नन्वनवधृतस्वरूपाणां कथं गवादिशब्दानां स्मरणं तदवधारणे वा को ऽभ्युपायः, अभियोगविशेष इति बमः, कः पुनरभियोगः को वा तस्य विशेषः ध्याकरणाध्ययनमभियोगः तदभ्यासानुसारेण लक्ष्यनिरीक्षणं तस्य विशेषो व्याकरणेन च प्रतिपदमपर्यवसितार्यजनप्रयोज्यसाधुशब्दसार्थसंग्रहतस्तद्विसहशबर्षरपुरन्ध्रिप्रायप्राकृतगोचरापशब्दपरिहारप्रकारव्युत्पादनमुपगम्यते यदानन्त्यात्किल कल्पशतैरपि नावकल्पते किं तु व्यपनीतातिव्याप्त्यादिदोषो. पनिपात: त्रिमुनिपरीक्षितलक्षणद्वारकस्तदुपदेशः श्रूयते, तेन च वेदेनेव धर्माऽध. मयाब्रह्मावतारेणेव सत्यानृतयोः नीतिशास्त्रेणेव हिताहितयोर्मन्वादिवचनेनेव भक्ष्याभक्ष्ययोदिव्येनेव शुद्धयशुद्धयोः सिध्यत्येव साध्वसाधुशब्दयोरधिगम इति सर्वलोकसाक्षिकमेतस्कथमपनीयते, दृश्यते ह्यद्यत्वे ऽपि व्याकरणकोविदानामितरेषां च कृषीवलादीनामतिमहान्वचसि विशेष इत्येवं प्रमादादिमूलगाव्याथपशब्दप्रयोगसंभवादनेकशब्दगतवाचकशक्तिकल्पनागौरवप्रसङ्गादभियोगविशेषसायमानसाध्वसाधुशब्दाधिगमसोकर्याच गवादीनामेव वाचकत्वं न गाव्यादी. नामिति स्थिते पूर्वपक्षोपन्यस्तः समस्त एव परीवादः परिहृतो वेदितव्यः, तथा हि यत्तावदभ्यधायि साधुत्वनिश्चये प्रमाणं नास्तीति
साधुत्वं नेन्द्रियप्राह्य लिङ्गमस्य न विद्यते । शास्त्रस्य विषयो नैष प्रयोगो नास्त्यसंकर इति ॥ [
साधुत्वस्य शाखसहकृतमत्यक्षग्राह्यतानिरूपणम्तत्रायं प्रतिश्लोकः।
साधुत्वमिन्द्रियग्राह्य लिङ्गमप्यस्य विद्यते ।
शास्त्रस्य विषयो ऽप्येवं प्रयोगोऽप्यस्त्यसंकर इति ।। श्रौत्रे हि प्रत्यये प्रस्तनिरस्तरोमशाम्बुकृतादिदोषरहितोदात्तादिधर्मसंबन्ध.