________________
प्रमाणप्रकरणम्
दिवचनेष्वपभ्रष्टा अभ्यधिकतरामपभ्रंशदशा स्पृशन्तस्तेऽपि तामेव गवादिशब्दमधुरमधिरोहेयुः न चैवमस्त्विति शक्यमभ्यनुज्ञातुमिदानीमेव भ्रश्यतां तेषां प्रत्यक्षत उपलब्धेरिति, तस्मादवश्यं तावदद्यत्वे परिदृश्यमानापभ्रंशदशा दुर्वलबालाबलादिशब्दानां न गवादिशब्दापधितुमर्हति, ते चेन्न स्पर्धन्ते तदधनागाव्यादयोपि प्रकारान्तरोपपत्तिसम्भावनाङ्करप्रभवा सन्तो न गवादिशब्दसमानविधित्वमध्यवसातुं शक्नुयुरिति तर्कयाम, तदुक्तं भगवता जैमिनिनो, “शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्" इति(१) भाष्यकारेणापि व्याख्यातं "महता प्रयत्नेन शब्दमुच्चरन्ति वायुः नाभेरुत्थितः उरसि विस्तीर्णः कण्ठे वित्ति तो मर्धानमाहत्य परावृत्तो वक्त्रे चरविविधान शब्दानभिव्यनक्ति तत्रापराध्ये. ताऽप्युच्चारयिता यथा शुष्के पतिष्यामीति कदम पतति सकृदुपस्प्रक्ष्यामीति द्विरुपस्पृशति” इत्यादिना ।
अपभ्रंशानामनादित्वाभावप्रतिपादनम् --- आह तहि विशेष प्रमाणं वक्तव्यं यदेते गाव्यादयः प्रमादाद्यपराधनिबन्ध. ना एव न गवादिशब्दसमानविधय इत्युच्यते, भवतु नः समीहितं संशयदशां तावदानोता ऽयमनादिगाब्यादिशब्दवाची महापुरुषः सम्बोध्यते भो महात्मन्नि त्थं पूर्वोक्तनीत्या संशये सति चिन्त्यतां किमते गाव्यादयो गवादिसमानयोगक्षमा एव हस्तः करः पाणिरितिवद्भवन्तु किं वापराधसम्भावनया मार्गान्तर. मालम्बन्तामिति, तत्रैकस्मिन्वाच्ये बहवस्तुल्यकक्ष्या वाचका इति नैष न्यायः, कथं प्रत्यर्थ शब्दनिवेशात्तेनैव सम्बन्धकरणसौकर्यादन्यसम्बन्धे यत्नगौरवप्रसङ्गात्प्रत्यर्थ शब्दनिवेशे हि सति परस्परमव्यभिचारिणौ शब्दार्थों भवतः स श. ब्दस्तस्य वाचकः सोऽर्थस्तस्य वाच्य इति, अनेकशब्दवाच्यस्त्वेकोऽर्थस्तं वाच. के शब्दं न जह्यादपि तमन्तरेण शब्दाभिधेयतामपि यतः प्रतिपद्यते इति व्य. भिचारः, अनेकार्थवाचिनि चैकम्मिन्वाचके इध्यमाणे शब्दोऽर्थ व्यभिचरेत्तम्येवार्थान्तरस्यापि ततः प्रतिपत्तेरितीत्थमनियमो ऽयमपप्लवेत, हस्तः करः पा. णिरित्यादावक्षाः पादा माषा इत्यादौ तु गतिरन्या नोपलभ्यते तेनानेकशब्दत्व. मनेकार्थत्वं च दैवबलवत्तया ऽङ्गीकृतं प्रथम: पुनरेष ऋजुः पन्था यदेकस्य वाचकस्यैको वाच्याऽथ इति च, इह गत्यन्तरमतिस्पष्टमस्ति प्रमादप्रभवत्वं नाम तस्मिन्सति किमिति प्रथमप्राप्तो ऽयं प्रतिवाच्यं वाचकनियमक्रमो लध्यते, तेन प्रमादापराधनिबन्धना गाव्यादयो न गवादिसमानमहिमान इत्युक्तम् ,
कि च वाचकशक्तिः नाम सूक्ष्मा परमथोपत्तिमात्रशरणावगमान तन्मन्दता. यामन्यत: कुतश्चिदवगन्तुं पायत, सा चेयमन्यथाऽप्युपपद्यमाना गवादिभ्यो ऽर्थ
(१) जैमिनिसुत्रम् । अ० पा० ३ सू० २५ तोव शाबरभाष्ये ।