SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३८६ न्यायमअर्याम् अन्यैरप्युक्तम् वृत्तिसूत्रं तिला माषाः कपत्री कोद्रवौदनः । अजडाय प्रदातव्यं जडीकरणमुत्तममिति ।। एवं व्याकरणावगाहनकृतोद्योगोऽपि विद्वज्जनों व्युत्पत्तिं लभते न वैदिकपदप्रामे मनुष्योक्तिवत् । अन्यत् किं चन तत्प्रतीतिशरणं नास्तीति च व्याकृतं तस्मादप्रतिपत्तिमन्थरमुखो वेदः प्रमाणं कथम् ।। साधुशब्दानां वाचकत्वव्यवस्थापनम्अत्राभिधीयते, यत्तावदिदमवादि गवादिशब्दवदनादिप्रबन्धसिद्धमेव गाव्यादेरपि वाचकत्वमिति तत्रामुं पक्षं संशयदशामेव तावदारोपयामः, पूर्वप. क्षिकोक्तयुक्तिसमुत्थापितस्थिरतरविपर्ययज्ञानसमनन्तरं सहसैव सम्यग्ज्ञानोत्पा. दनातिभरागारैकदेशावतरणन्यायेन संशयस्तावदुपपद्यते, ततः तात्परिशोधिः ते ऽध्वनि सुगमे सुखं विहरिष्यति सम्यनिर्णयोपायो न्याय इति तदुच्यते, यदि गाव्यादीनां गवादीनामिव शब्दानां प्रयोग गतिरन्या न काचित्सम्भावना. भूमिमनपेति(?) तत्सत्यमादिसत्तायाः कल्पने कोऽवसरो यथा हि स्वाध्यायाध्यय. नसमये यादृशमेव शब्द यथोचितमात्रानुस्वारस्वरादिरूपसमुत्थितमुच्चारयत्या. चार्यः तादृशमेव शिष्यः प्रत्युच्चारयति प्रमाद्यन्तं वा गुरुरेवैनमनुशास्ति आतदुच्चारणसामोपजनं तावन्न मुञ्चति शिक्षयति सोऽपि शिष्टो यदा गुरुभवि. प्यति तदा स्वशिष्यं तथैव शिक्षयिष्यति आचार्यों यदा शैशवे शिष्य आसी. त्तदान्येन गुरुणा शिक्षितो ऽभूत् सोपि तदन्येन सोपि तदन्येनेत्येवमनादित्वं जैमिनीयपक्षे सर्गात्प्रभृति प्रवृत्तत्वं नैयायिकपक्षे वेदाध्ययनस्य व्यवस्थितम् , __ इत्थमेव यदि गाव्यादीनां गवादिवत् प्रमादतः सुपरिरक्षितः प्रयोगस्तथैव तेभ्योऽर्थप्रतिपत्तिपूर्वको व्यवहारस्तदाऽनादिगवादिशब्दसमानविषया एव गा. व्यादय इति तदा कस्य किं ब्रूमः, अस्ति त्वत्रान्यः प्रकारो न ह्येकान्तेन याह. गेव वक्त्रा शब्दः प्रयुज्यते ताहगेव श्रोत्रा प्रत्युचायते किं तु प्रमादालस्यादिवि. विधापराधविगुणकरणेच्चार्यमाणे। ऽपभ्रंशतां स्पृशन दृश्यते इत्यस्ति संशयावसरः, अपभ्रंशतयाऽपि ये स्थिताः स्थास्यन्त्यपि वा शाकटिकभाषाशब्दास्ता. नपि गोपालबालाबलासु प्रयुखाना जरत्पामराः प्रयत्नेनापि न यथोच्चारितानेव तान्पठितुं शक्नुवन्तीति अशक्तिजशब्दबाहुल्यदर्शनात्संशयाना कुशाग्रेयबुद्धे. रपि बुद्धिर्भवितुमर्हति किमेते गवादिशब्दा एवानादिसिद्धवाचकाः शक्तिभाज. स्तेभ्योऽन्ये विगुणकरणप्रयोज्याः प्रमादप्रभवाः अपभ्रंशाः किं वा सर्व एव तुल्यकक्षा इति, सर्वेषां तुल्यकक्षत्वे य एते अद्यत्वे ऽपि प्रमादजाः प्रमदादारका.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy