________________
प्रमाणपकरणम्
वृक्षमूलादागते आङ्गुलिको वार्भमूलिक इति न वक्तारो भवन्तीति एतदप्यसम. ब्जसमनुशासनम् ,
तथा अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति संज्ञालक्षणमतिव्यापक वाक्यस्यापि प्रातिपदिकसंज्ञाप्रसङ्गात् ।
अथ कृत्तद्धितसमासाश्चेतिसूत्रान्तरे समासग्रहणं विशेषविधित्वेन वण्यमानं तदितरवाक्यप्रतिषेधाय भवतीति ततो वाक्यनिवृत्तिः सेत्स्यति, यद्येवम. धातुरप्रत्यय इति न वक्तव्यं धातुप्रत्ययोरपि तत एव प्रतिषेधसिद्धः ।
अथैकार्थतया समानशीलस्य वाक्यस्यैव प्रतिषेधे प्रभवति समासग्रहणं न' धातुप्रत्यययोरपि तदपि दुराशामात्रम् , वाक्यसमासयोरपि वावच. नानर्थक्यकथनेन सार्थशक्तयव्यवस्थापनादिति,
तदेवं प्रातिपदिकसंज्ञाविषयस्यानिश्चयात्तत्प्रकृतिकानां ड्याप्रातिपदिका. दित्यधिकृत्य स्वादिप्रत्ययानां विधानमनुपपन्नमित्यलं प्रसङ्गेन, सर्वथा दुव्य. वस्थितं शब्दानुशासनम,
यश्च व्याख्यातणामुक्तानुक्तदुरुक्तनिरीक्षणप्रयत्नो यश्च वाचकमात्रावर्णाधिक्यमिषपुरःसरलक्षणपरिचोदनप्रकारो यच्चेदं व्याख्यातृवचनमिह न भवत्यनभिधानादिति यच्च व्याप्तिसिद्धौ सरलमुपायमपश्यतामाकृतिगुणव. र्णनं यच्च पदे बहुलवचनं तत्सुतरामपरिशुद्धिमनुशासनस्य दर्शयतीति ।
अन्ये तु शोभेति चीर्णमिति न याति प्रतिभेत्तमिति मातुरनुहरतीति फ. लिनबहिणो घासीति कांदिशीक इति भ्राजिष्णुरिति गणेय इति वरेण्ड इति लक्ष्यसंग्रहबहिष्कृतस्मृतिसन्देहविपर्ययप्रतिपादकत्वलक्षणस्खलितं विप्लुतं पा. णिनितन्त्रं मन्यमानाः तत्र महान्तमाक्षेपमतानिषुः स तु स्थूलोदरप्राय इतीह ग्रन्थगौरवमयान लिख्यते।
ननु यदि लक्षणस्य प्रणेता पाणिनिः न सम्यग्दर्शयत्यत्र विवरणकाराश्च नातिनिपुणदृशः काममन्यः सूचीकृतबुद्धिर्भविष्यति वृत्तिकाराश्च प्रौढतरदृष्टयो भविष्यन्ति तेभ्यः शब्दलक्षणमविप्लुतमवभोत्स्यामह इति,
नैतदस्ति तेषामप्यभियुक्ततराः के चिदुत्प्रेक्षन्ते एव दोषं तेषामपरे तेषामप्यपरे, तदेवमनवस्थाप्रसङ्गानास्ति निर्मलमनुशासनमिति क्लेशायैव व्याकरणाध्ययनमहाव्रतग्रहणम् , तथा च बृहस्पतिः प्रतिपदमशक्यत्वाल्लक्षणस्यापि अव्यवस्थानात्तत्रापि स्खलितदर्शनादनवस्थाप्रसङ्गाश्चमरणान्तो व्याधियाकर. णमित्यौशनसा इति। इहाप्युक्तम्--
दुष्टाहगृहीतो वा भीतो वा राजदण्डतः । पितृभ्यामभिशप्तो वा कुर्याद्याकरणे श्रमम् ।। ४९ न्या०