________________
३८४
न्यायमचर्याम्
चित्रक्रियोपयोगः अन्यथा करणस्यान्यथाधिकरणस्यान्यथा संप्रदानादेः, इह च क्रियासाध्यत्वे ऽप्योदनस्य तक्रिययोपयोगित्वमनिवार्यम् तमनुद्दिश्य क्रियायाः प्रवृत्त्यभावादितीत्थमनेन रूपेण तस्य क्रियासाधनत्वात्कारकत्वमिति, नैतदेवं साध्यैकस्वभावस्य सुखादेरपि कारकत्वप्रसङ्गात् , कारकत्वव्यपदेशा हि न पा. रिभाषिकः किं तु क्रियासम्बन्धनिबन्धन: क्रियासम्बन्धश्चेदृशो यदुपेयक्रियायाः उपायोः कारकमिति विपर्यये तु कीदृशः कारकभावः, अस्तु तहि तण्डुलान्प. चतीति मा च भूदोदनं पचतीति ओदनस्य फलदशानुप्रवेशादिति, उक्तमंत्र तण्डुलेष्वपि तमबर्थो न वाचकस्तेषामपि फलसाधनोपयोगाविशेषादिति, स्वत. न्त्रः कर्तेति किमिदं स्वातन्त्र्यं यदिच्छातः प्रवर्तनमिति चेत्कुलं पचतीति चैत. न्यशून्यतया कुलस्येच्छानुपलम्भादकर्तृत्वं भवेद्, ___ अथ यद्व्यापाराधीनः काररकान्तरव्यापारः स कर्तेत्युच्यते सर्वकारक निर्वय॑त्वास्क्रियायाः न विद्मः किं व्यापाराधीनः कस्य व्यापार इति समग्र कारकग्रामस्य परस्परापेक्षत्वात् ।
अथ यः कारकान्तराणि प्रयुङ्क्ते तैश्च न प्रयुज्यते स कर्तेति तर्हि पुनर. चेतनानामकर्तृत्वप्रसङ्गदोषस्तवस्थ एव, अथ धातुना ऽभिधीयमानव्या. पारः कर्तेति तत्रापि न विद्मः कस्य धातुना ऽभिहितो व्यापारः सकलकारक. वाचित्वात्पचेः, अन्यथा हि सकलव्यापारानभिधायिनि धातौ तदथसाधने सर्वेषां सङ्गतिरेव न स्यात तथा च सति सर्वकारकाणि कर्तृत्तमेव स्पृशेयुः।
अथ मतमगुण धातुना ऽभिधीयमानव्यापारः कर्तेति त्तदप्यसत्सकृदुच्चरितो धातुरनेकस्मिन्कारकचक्रे कस्य चिद्गुणत्वेन कस्य चित्प्राधान्येन व्या. पारः कथमिव कथयितुं शक्यत इति, तत्प्रयोजको हेतुश्चेति प्रयोज्येनैव व्या. ख्यातम् , एवं कारके शासनस्याव्यवस्थानात्तदधीनप्रसक्तविभक्तिविधानमपि प्रत्युक्तम् , अपादाने पञ्चमा सप्तम्यधिकरणे इत्यादिविषयनिरूपणपूर्वकत्वात्त द्विधानस्येति ।
किं च यदपि तद्धितसमासानुशासनं तत्सामर्थ्यनियमपूर्वकं समर्थानां प्रथ. माद्वा समर्थः पदविधिरिति परिभाषणात्तत्रापि वक्तव्यम्, सामथ्र्य नाम किमुच्यते इति, एकार्थान्वयित्वमिति चेत्कुतो ऽवगम्यते, तद्धितसमासप्रयोगप्रतिपत्तिभ्यामेवेति चेत्तहि तद्वितसमासप्रयोगप्रतिपत्त्योः सामर्थ्यावगमः सामर्थ्ये सति तयोः प्रवृत्तिरितीतरेतराश्रयत्वम् , ___ अपि च सामर्थ्यमन्तरेणापि क्वचित्प्रयुजते समासं अश्राद्धभोजी दधिघटे। गोरथ इति, तथा सत्यपि सामर्थ्यतद्धितप्रयोग परिदृश्यन्ते(१) अङ्गुल्या खनति
(१) न कुर्वते इत्यर्थकं किं चिल्लेखकप्रमादजमिदम् ।