________________
प्रमाणप्रकरणम्
३८३
नो रथात्पतित इति सार्थरथयोः क्रियोपलभ्यते न वृक्षवन्निश्चलत्वमिति चेत् सत्यं स्वरसप्रवृत्ता तयोरस्ति क्रिया हाने याने च पादपनिर्विशेषावेव सार्थरथौन च यदेकस्यां क्रियायां कारक तत्सर्वासु क्रियासु कारकं भवत्यतिप्रसङ्गात् । ___ कर्मणा यमभिप्रेति तत् संप्रदानमित्यत्र कर्मशब्दः क्रियावचनो वा स्यादी. प्सिततमकारकवाची वा आये पक्षे क्रियायाः सर्वकारकाण्यभिप्रेयन्ते इति संप्रदानतां प्रतिपद्येरन् , न चोपाध्यायस्य कं चिदभिप्रेयमाणस्य व्यापारमु. त्पश्याम इत्यसावकारकमेव तत्र स्यात् , प्रतिग्रहस्तु क्रियान्तरमेव तत्र चोक्तम् क्रियया चाभिप्रेयमाणं फलं भवति, न द्वितीयः कारकसंबन्धित्वेन कारकस्य कारकत्वानुपपत्तेः क्रियासंबन्धितया हि कारक कारकं भवति न कारकसंब. न्धितया करोतीति कारकमिति व्युत्पत्तेः। __ साधकतमं करणमिति तमबनवधारणादनुपपन्नमनेककारकसंदर्भसं. निधाने कार्यमात्मानं लभते तेषामन्यतमव्यपगमे ऽपि न लभते इति ततः किमिव कारकमतिशयशबलितवपुरिति कं तमबर्थ मङ्गलकलशेनाभिषिञ्चामः, प्राचुर्येण प्रधान कार्य प्रति व्यापारयोगित्वमित्यादि सर्वसाधारणं न काष्ठै. कनिष्ठमिति काष्टः पचतीति कथं तेषामेव करणत्वम् ,
आधारो ऽधिकरणमिति यदुच्यते तत्र वक्तव्यं कस्याधार इति क्रियायोः कारकस्य वा यदि क्रियाधारत्वमधिकरणलक्षणमशेषकारकाणामधिकरणसंज्ञा प्रसज्येत क्रियायोगाविशेषादथ यत्र स्थाल्यादौ कर्मादि श्रितं तण्डुलादि तद. धिकरणं समे देशे पचतीति न स्यादप्सु पचतीति स्यात् कटे स्थितो भुङ्क्ते इति चापभ्रंशा भवेत् , कर्तुहि तदधिकरणं न कर्मणः, कर्तृकर्मणाः क्रियाश्रययोर्धारणाधिकरणत्वे अधिकरणमिति चेदुभयाधारत्वं न कटस्य न स्थाल्या इति द्वयोरप्यधिकरणता हीयते एकैककारकाधारत्वे तु तल्लक्षणे परस्परापेक्षया पुन. स्तत्स्वरूपसांकार्य भवेत् , यदि तु सकलकारकाधारत्वमधिकरणलक्षणं स्था. ल्यामोदनं पचतीति न स्यात्सकलकारकानधिकरणत्वात्स्थाल्या अधिकरणस्य चाकोरकत्वप्रसक्ति: न ह्यधिकरणमधिकरणाश्रितं भवति मध्याह्न स्नाति रात्रावश्नाति पूर्वस्यां दिशि विहरतीति कालादीनामव्यापारत्वादकारकत्वमेव भवेत् तथा च सत्येते प्रयोगा असाधवः स्युः । ___ कतुरीपसिततमं कर्मति साधकतमवदिहापि न वाचको ऽयमतिशयानः सर्वकारकाणां क्रियार्थितया कर्तुरीपसिततमत्वादर्थ यदर्थ क्रिया तदर्थ कर्तुरोसितं तदर्थ त्वन्यदिति तत्र संप्रत्यय इत्युच्यते तर्हि तस्य कारकत्वमेव न युक्तम् , क्रियासम्पादकं हि कारकमुच्यते क्रियासम्पाद्यं तु फलं भवति न का. रकं कारकं च क्रियया चाप्तुमिष्टतममिति च विप्रतिषिद्धम् ।
अथाभिधीयते क्रियोपयोगयोग्यतानिबन्धनो ऽयं कारकव्यपदेशः स च वि.