SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ न्यायमचर्याम् नमिति प्रश्नपूर्वकमुक्तं प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेनेति च, तथा हि कर्मण्यणिति सामान्यलक्षणं कर्मण्युपपदे धातुमात्रादणप्रत्य. यो भवतीति तेनानेन सामान्यविशेषवता लक्षागेन कुम्भकारो नगरकार इत्या. दयो गोदः कम्बलद इत्यादयश्च भूयांसःशब्दा अक्लेशेनैव व्याकरिष्यन्ते इत्युच्यते प्रकृत्यादिविभागकल्पनयेत्यत्र यद्वक्तव्यं तत्प्रागेव सविस्तरमभिहितं सामान्यविशेषवता लक्षणेनेति तु संप्रति निरूप्यते, तदपि व्यवस्थितं लक्षणं न दृश्यते । ___ तथा हि धातोः पुरः प्रत्यया भवन्तीति लक्षणं कुर्वता वक्तव्यं कः पुनरयं धातुर्नामेति, ननु भूवादयो धातव इत्युक्तमेव तत्स्वरूपं के चन शब्दाः कया चित्परिपाट्या पठितास्ते धातुसंज्ञया लक्ष्यन्ते तेभ्यः परे तिङः कृतश्च प्रत्यया भवन्तीति, सत्यमुक्तमेतत् किं त्वेवं पाठे कृते ऽपि न धातुस्वरूपनिर्णय उप. वर्णितो भवति, तथा च गण्डतीत्यपि प्राप्नोति धातोस्तिप्रत्ययविधानात् , घटचेष्टायामिति धातुरस्ति च घट इति प्रातिपदिकम् अम रोगे इति धातुरनुबन्धत्यागादमिति भवति अस्ति च द्वितीयाया विभक्तरेकवचनमिति, भूशब्दो धातुः अस्ति भूप्रातिपदिकम् यती प्रयत्ने इति लुप्तानुबन्धो यदिति धातुः अस्ति च यदिति सर्वनामपाठप्रसिद्धरूपमत्राविशेषादधातोरपि घटभूयच्छब्दरूपात्परे तिङ्प्रत्यया भवेयुः, क्रियावचनो धातुरिति चेद् भवति तिष्ठतीत्यादीनामसा. धुत्वं प्राप्नोति गमेश्चानर्थकः पाठः, उभयं तर्हि धातुलक्षणं पाठः क्रियावचन. ता चेति भवितुमह ति तदपि हि व्यस्तं वा लक्षणं समस्तं वा व्यस्तपक्षे भव. स्यादौ क्रियावचनत्वस्य द्वितीयस्य लक्षणस्य चाभावादधातुत्वमेव स्यादिति एवं धातोः प्रकृतेरनिर्णीतत्वात्कुतः परे तिङश्च कृतश्च प्रत्यया उत्पोरन् , समस्तपक्षे इत्यादिपतितम्(१) कि च के चन तिप्रत्ययाः कालाद्यपाधयो न तद्वचनाः अनुक्तेषु च कालादिषु तत्पूर्वकं वर्तमाने लड् भविष्यति लिड्भूते लङिति नियमरूपमशक्यम् , उच्यतां तर्हि तिभिः कालादय इति चेन्न भाष्यविरो. धादुक्तं हि भगवता भाष्यकारेण भूते धात्वथ इति न च धात्वर्थेनैव धात्वर्थो व्यवस्थापयितुं शक्यते लिङादयश्च सुतरामनधिगम्यमानविषयास्ते हि विध्यादावर्थ विधीयन्ते स च विधिरूपा ऽथः स्वरूपतश्वोपाधितश्च न शक्यो. निर्णेतुमिति । ___ तथा कारकानुशासनमपि दुःस्थं ध्रुवमपाये ऽपादानमित्युच्यते तत्र ध्रव. स्य वृक्षादेवृक्षात्पतिता देवदत्त इति पतनक्रियायामवलग्नं कृशमपि न कार. कत्वमुत्पश्यामः, क्रियायोगा हि कारकं सा च वृक्षे नोपलभ्यते इति सार्थाद्धी (१) मत्र ग्रन्थस्युटित इति प्रतीयते ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy