SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् एव व्याकरणम् , न च स्थूलपृषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरणप्रयोजनतया वक्तव्यं तस्यापि कल्पसूत्राद्युपायान्तरलभ्यत्वात् , यश्वाह "तत्त्वावबोधः शब्दानां नास्ति व्याकरणाहते" तस्य सोपहासमुत्तरं वार्तिकार एव दर्शितवान् (१)"तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियाहते इति" अपि च व्याकरणेन कृते ऽपि शब्दसंस्कारे तदुपदिष्टसंस्कारबहिष्कृतशब्द. प्रयोगान् विदधतस्तत्र तत्र शिष्टाः पूर्व ऽपि दृश्यन्ते,सूत्रकारस्तावज्जनिकर्तुःप्रकृतिः तत्प्रयोजको हेतुश्च तृजकाभ्यां कतरीति प्रतिषिद्ध षष्ठीसमासं जनिकर्तुरिति धातुनिर्देशकविषयं जनिशब्दमर्थनिर्देशे ऽपि प्रयुक्तवान्वात्र्तिककारो ऽपि दम्भे. हेल्ग्रहणस्य जातिवाचकत्वात्सिद्धमिति तथैव प्रयुक्तवानान्यभाव्यं तु काल. शब्दव्यवायादिति च तेन समाससंज्ञया गुणवचनसंज्ञाबाधितत्वादगुणवच. नत्वाद् ब्राह्मणादिगणापठितत्वाद् गुणवचनब्राह्मणादिभ्य इत्यप्राप्तमेव व्यवं कृतवान् , भाष्यकारोऽपि अविरविकन्यायेनेति द्वन्द्वगर्भे तत्पुरुषे प्रयुयुक्षिते सुपो धातुप्रातिपादकयोरिति प्राप्तमपि लोपं न कृतवानन्यथा कृत्वा चोद्यमन्यथा कृत्वा परिहार इति अत्र चान्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेदिति प्राप्तमपि णमुलमुपेक्ष्य क्ताप्रत्ययं प्रायुक्त, तदिदं त्रिमुनि व्याकरणस्य त्रयो ऽपि च मुनयः स्खलन्तीति कमुपालभेमहि, मन्वादिग्रन्थेष्वपि कियन्तो ऽपशब्दाः गण्यन्ते ज्ञातारमन्तिमेत्युत्केति मनुना अक्षिणी आज्येत्याश्वलायनेन मूर्धन्या. भिजिघ्राणमिति गृह्यकारेण तदनन्तरं तुभ्यं च राघवस्येति वाल्मीकिना जन्मे जन्मे यदभ्यस्तमिति द्वपायनेन प्रयुक्तम् , आह च "अन्ता नास्त्यपशब्दाना. मितिहासपुराणयोरिति(२)। साधुशन्दनिरूपणानुपपत्तिःअथ वा किमनेन पुराणपुरुषपरिवादेन सर्वथा ऽयं वस्तुसंक्षेपः क्षामो ऽपि कश्चिदुपयोगो न लेोके वेदे वा व्याकरणस्य विद्यते इति, किं चान्यद् अथ शब्दानुशासनमित्युपक्रम्य केषां शब्दानामिति पृष्ट्वा लौकिकानां वैदिकानां चेति प्रतिज्ञाय न लौकिकाः सर्व व्याकतु पारिताः शब्दाः नापि वैदिकाः, तथा हि तेषां व्यक्रिया प्रतिपदं वा विधीयत लक्षणतो वा, प्रतिपदं तावदनुशासनमघट. मानं स्याच्छन्दानां तथा चाहुः "बृहस्पतिरिन्द्राय दिव्यवर्षसहस्रं प्रतिपदोक्तानां शब्दानां पारायणं प्रावाच न चान्तं जगाम"इति, नापि लक्षणतस्तत्संभवोन हि सकलसाधशब्दवगानुगतमपशब्देभ्यश्च व्यावृत्तं गात्वादिवदिह कि चिल्लक्षणम. स्तीत्युक्तम, तत्रतत्स्यान्न जातिरूपमिह लक्षणमभिधित्सितमपि तु कथमनुशास. (१) तन्त्रवातिक अ० १ पा० ३ सू० १८ । (२) तन्त्रवार्तिके अ० १ पा० ३ सू० १८ ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy