________________
न्यायमञ्जर्याम्
नफला मीमांसा दृश्यते न व्याकरणम् , तेन रक्षोहागमलध्वसंदेहाः प्रयोजनमिति यदुच्यते तन्न सुव्याहृतम् ,
यान्यपि प्रयोजनान्तराणि भूयांसि ते ऽसुरा हेलयो हेलय इत्युदाहरणदिशा दर्शितानि तान्यपि तुच्छत्वादानुषङ्गिकत्वाच्चोपेक्षणीयानि, तदुक्तम्
अर्थवत्त्वं न चेज्जातं मुख्यैरपि प्रयोजनः । तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनीति(१)।
व्याकरणस्य शब्दादिसंस्कारकत्वानुपपत्तिःअथ कथ्यते किं प्रयोजनान्तरपर्येषणया शब्दसंस्कार एव व्याकरणस्य प्रयोजनमिति तदपि व्याख्येयं कः शब्दस्य संस्कारः तेन वा को ऽर्थ इति, न हि व्रीहीणामिव प्रोक्षणमाज्यस्येवावेक्षणमग्नीनामिवाधानं शब्दस्य कश्चन व्याकरणकारितः संस्कारः संभवति, नैयायिकादिपक्षे च क्षणिका वर्णास्तेषामुच्चारितनष्टानां कः संस्कारः शरादेरिव न वेगो नात्मन इव भावना न शाखादेरिव स्थितिस्थापक इति, वर्णानां नित्यत्वपक्षे ऽपि क्षणिकाभिव्यक्तित्वमपरिहार्यमा तस्तेष्वपि कः संस्कारः, संस्कारश्च वर्णस्य वा पदस्य वाक्यस्य वेति विक. रूप्यमानो न कस्य चिद्यवस्थापयितुं शक्यः, वैयाकरणानां तु निरवयववाक्य. विदा पदवर्णयो संस्कारः सुतरामनालम्बनः, अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्र. त्ययादिकमन्यान्येव पदाान सस्करिष्यन्ते इति चेन्न, असतां संस्कारस्यानुपपत्तेः, आह च
वाक्येभ्य एव परिकल्पनया विभज्य संस्कर्तुमिच्छति पदानि महामतिर्यः । उच्चित्य सौरभविभूषितदिशि कस्मा
दाकाशरूढकुसुमानि न संस्करोतीति ।। न च शब्दसंस्कारकर्तव्यतोपदेशे कश्चिदनारभ्याधीतो वा प्रकरणपठितो वा विधिरुपलभ्यते यमनुरुध्यमानाः शब्दस्योपयुक्तस्य चात्वाले कृष्णविषाणां प्रास्यतीतिवदुपयोक्ष्यमाणस्य वा व्रीहिन्प्रोक्षतीतिवत्कं च न संस्कारमनुतिष्ठेम, स्वाध्याया ऽध्येतव्य इति विधिरामुखीकरणेन माणवकस्य वा ग्रन्थस्य वा विधिः संस्कारमुपदिशतीति महती चचैषा तिष्ठतु, सर्वथा नायं व्याकरणनिवर्त्यः प्रत्ययागमवणेलोपादेशादिद्वारकशब्दसंस्कारोपदेशशङ्कामपि च नयती. त्यास्तामेतत् , न च शब्दप्रयोगोपायस्थानकरणादेः कोष्ठ्यस्य मातरिश्वनो वा श्रोत्रेन्द्रियस्य वा तदुपलब्धिकरणस्य प्रयोक्तुरात्मनो वा मनसो वा बुद्धा कश्चिद्याकरणेन संस्कारक्लेशः शक्यक्रिय इति तत्कारके ऽपि संस्कारे ऽनुपाय
(१) तन्त्रवार्तिके अ० १ पा० ३ ० १८ ।