________________
प्रमाणमकरणम्
३७९ नाथातो धर्मजिज्ञासा प्रमाणादिज्ञानात्साधम्र्म्यादिज्ञानाद्वा निःश्रेयसाधिगम इतिवत्तत्र सूत्रकारः प्रयोजनं प्रत्यपीपदत्, सुज्ञानत्वान्न प्रत्यपाद्यदिति चेत् किमुच्यते सुज्ञानत्वं यदद्यापि निपुणमन्वेषमाणा अपि न विद्मः यत्र चाद्यापि सर्वे विवदन्ते,
किं च धमार्थकाममोक्षाश्चत्वारः पुरुषार्थाः तेषामन्यतमः किल व्याकरणस्य प्रयाजनमाशङ्कयेत, तत्र न तावद्धर्मस्तस्य प्रयोजनं स हि यागदानहोमादिस्वभावः तज्जनितसंस्कारापूर्वरूपो वा वेदादेवागम्यते चोदनैव धर्मे प्रमाणमिति तद्विदः, चोदनामूलमन्यादिस्मृतिसदाचरणेतिहासगम्यो वा कामं भवतु, व्याकरणस्य तु स्वतस्तदुपदेशसामथ्यासंभवादङ्गस्वभावाख्यातत्वाच्च न तत्प्रयोजनता युक्ता, प्रयोगनियमद्वारकस्तु धर्मस्तस्य प्रयाजनतया निरस्त एव, अर्थप्रयोजनता वार्तादण्डनीत्योः प्रसिद्धा न व्याकरणस्य अधीतव्याकरणा अपि दरिद्राः प्रायशा दृश्यन्ते न तस्यार्थः प्रयोजनम्, कामस्तु वात्स्यायनप्रणीतकामशास्त्रप्रये। जनतामुपगता न व्याकरणसाध्यतां स्पृशति, मोक्षे तु द्वारमात्मादिपरिज्ञानमाचक्षते क्लेशप्रहाणं चाध्यात्मविदः पत्वगत्वपरिज्ञानं पुनरपवर्गसाधनमिति न साधीयान् वादः, तदेवं धर्मादिचतुर्वर्गादेको ऽपि न व्याकर साध्य इति स्थितम् ।
अथोच्यते सकलपुरुषार्थसार्थसाधनोपदेशविधेर्वेदस्य व्याकरणमवलग्नकमङ्गमतस्तत्प्रयाजनेनव प्रयोजनवदिति न पृथक् प्रयोजनान्तरमाकाङ्क्षतीति तदपि परिहृतम,
या हि साधुशब्दोपदेशदिशा तस्य तदङ्गता सा व्युदस्तव न चास्यापि सतस्तत्तत्सेवाद्वारमपरमस्तीति, निष्प्रयोजनमेव चेदृशं न चानुपकारकमङ्गमपि भवितुमर्हति न हि तत्प्रधानेनाङ्गीक्रियते नियोगगर्भो हि विनियोग इति न्यायविदः,
यान्यपि रक्षादीनि प्रयोजनानि व्याकरणस्य व्याख्यातृभिरभिहितानि तेषामन्यतेो ऽपि सिद्धेर्न व्याकरणशरणता युक्ता, रक्षा तावदध्येतृपरम्परात एव सिद्धा मनागपि स्वरतो वर्णतो वा प्रमाद्यन्तं किं चिदधीयानमन्ये Sध्येतारो मा विनीनशः श्रुतिमित्थमुच्चारयेदित्याचक्षाणा: शिक्षयन्तीति रक्षितो भवति वेदः, ऊहस्तु त्रिविधा मन्त्रसामसंस्कारविषयः तत्र सामवि - षयो यौक्तिकशास्त्रादवगम्यतं याज्ञिकप्रयोगवादाद्वा मन्त्रविषयेो ऽप्येवम्, प्रोक्षणादिसंस्कारविषये तु तस्मिन्व्याकरणमपि कि कुर्याद, आगमस्त्वनन्तरमेव परीक्षितः आगमगम्यं च प्रयोजनं भवति न चागमः प्रयोजनम्, लाघवं तु किमुच्यते बाल्यात्प्रभृतिषु बहुषु वहत्स्वपि वत्सरेषु यन्नाधिगन्तुं शक्यते व्याकरणं स चल्लघुरुपायः को ऽन्यस्तता गुरुर्भविष्यति, संदेहो ऽपि न कश्चिदार्थ व्याकरणेन पुराणूयते प्रतिवात्र पप्लव पराननानाविध संदेह सहस्रविस्रंस