________________
३७८
न्यायमअर्याम्
__यदपि पुण्यपापफलत्वं शब्दापशब्दप्रयोगस्येति गोयते तदपि न पेशलं परि. दृश्यमानमविवादसिद्धार्थप्रत्ययजननमपहाय परोक्षस्यादृष्टस्य पुण्यपापात्मनः क. ल्पनाऽनुपपत्तेः,यश्चायं स्वर्गे लेोके कामधुग्भवतीति साधुशब्दस्तुत्यर्थवादो यश्च स वाग्वजो यजमानं हिनस्तीत्यपशब्दे निन्दार्थवादः तत्र परार्थत्वस्य विस्पष्टः दृष्टत्वादर्थवादमात्रपर्यवसितौ च "द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्"इति(१)न्यायान्न फलार्थतेति, तदेवं साधुभिर्भाषितव्यमसाधुभिनेति विधिनिषेधयोरनारभ्याधीतयोः श्रयमाणयोरपि दौस्थित्यात्तन्मूलतया लब्धप्र. माणभावा व्याकरणस्मृतिरङ्गतामेष्यति वेदस्येति दुराशैव, प्रकरणविशेषपाठे तु तयोस्तदुपयोगादेव न सार्वत्रिकी नियमार्थतेति सर्वथा न व्याकरणे तन्मूलत्वम् ,
___ व्याकरणस्य निष्पयोजनत्वम्आह तर्हि निष्कारणः षडङ्गो वेदो ऽध्येयो ज्ञेयश्चेति विधेः शिक्षाकल्प. सूत्रनिरुक्तच्छन्दोज्योतिः शास्त्रवद्याकरणमपि वेदाङ्गत्वादध्येतव्यमित्यवगम्यते, नैतदप्यस्ति शिक्षादीनामनितरेतरसाध्यासंकोर्णविविधविध्यपेक्षितवेदेोपकारनिवर्तकत्वेन तदङ्गता सुसङ्गता, व्याकरणस्य तु सुदूरमपि धावनप्लवने विदधतः साधुशब्दप्रयोगनियमद्वारकमेव तदङ्गवं सम्भाव्यते न मागोन्तरेण स च नियमो दुरुपपाद इति दर्शितम् , अतो नाङ्गान्तराणि स्पर्धितुमहति व्याकरणम् ,निष्कारणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजनशैथिल्यं सूचयति न तथा प्रयोजनवत्ताम् , अतिलिङ्गाद्यङ्गत्वप्रमाणापेक्षया षडङ्गता वर्णयिष्यते, एतेन "तस्मोद् ब्राह्मणेन न म्लेच्छितवे म्लेच्छो ह वा एष यदपशब्द" इति “एकः शब्दः सम्यक्प्रयुक्तः स्वर्ग लोके कामधुग्भवति"इति "आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत् इति "तस्मादशेषा व्याकृता वागुच्यते" इत्यादिवचनान्तरमूलता ऽपि व्याकरणस्मृतेः प्रत्युक्ता,शिष्टप्रयोगमूला तर्हि व्याकरणस्मृतिरस्तु वैद्यकस्मृतिरिवान्वयव्यतिरेकमूलेति चेत् के शिष्टा इति पृष्ठो वक्तु महसि, किमभिमतगवादिसाधुशब्दव्यवहारिणो गाव्याद्यपशब्दवादिनो द्वये वा, श्राद्ये पक्षे दुरुत्तरमितरेतराश्रयत्वम् , शिष्टप्रयोगमूलं व्याकरणं व्याकरणवि. दश्च शिष्टा इति, न ह्यशिक्षितव्याकरणास्तत्संस्कृतगनादिशब्दप्रयोगकुशला भवन्ति, मध्यमपक्षे गाव्यादिव्यवहारिणः शाकटिकाः शिष्टाः तत्प्रयोगमूलं गवादि. शब्दसंस्कारकारि व्याकरणमितिव्याहतमिव लक्ष्यते, तृतीये तु पक्षे गोगाव्या. दिशब्दप्रयोगसांकर्याकिंफल व्याकरणं भवेत् , वैद्यकस्मृतेस्तु युक्तमन्वयव्यतिरेकमूलत्वं तथा दर्शनादिति, तदनया ऽपि दिशा न प्रयोजनवत्तामुपयाति व्याकर. णम् , अतश्च निष्प्रयोजनं व्याकरणं तत्सूत्रकृता स्वयं प्रयोजनस्यानुक्तत्वात् ,
(१) जैमिनिसूत्रम् अ० ४ पा० ३ स० १ ।