________________
प्रमाणपकरणम्
अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः । न चावान्तरसामान्ये के चिद्वर्गद्वये स्थिते(१)॥ न हि साधुत्वसामान्यमेकेष्वेव व्यवस्थितम ।
इतरेषु त्वसाधुत्वसामान्यमुपलभ्यते ।। तदनुपलम्भादसंभवति वर्गीकरणकारणे कथमेष नियमो विधीयतेति ना. वधारयामः,
किं च नियमार्थे ऽपि शास्त्रे वक्तव्यं कीदृशो किं नियमार्थः साधुभिरेव भाषितव्यमुत भाषितव्यमेव साधुभिरित्युभयथा च प्रमादः, आह हि
यदि साधुभिरेवेति नासाधोरप्रसङ्गतः ।
नियतं भाषितव्यं चेन्मौने दोषः प्रसज्यते इति(२) ।। न वाचकत्वादन्यत्साधुत्वमित्युक्तमवाचकस्य प्रयोगप्रसङ्ग एव नास्तीति । अथ प्रमादाशक्तिजशब्दप्रयोगप्रतिषेधाय नियम आश्रीयते तत्रापि,
प्रमादाशक्तिजाः शब्दा यदि तावदवाचकाः । तेषु प्रसङ्गो नास्तीति तन्निवृत्तिश्रमेण किम् ।। अथ वाचकता तेषामप्रमादोत्थशक्तिवत् ।
न तर्हि प्रतिषेधः स्यादप्रमादोत्थशक्तिवत् ॥ नन्वस्ति तावदपशब्दानामशक्यनिह्नवः परिदृश्यमानो लोकप्रयोग इति तन्निवृत्तिफल एष प्रयोगनियमः कथं न भवेत् , यद्येवमक्षिनिकोचहस्तसंज्ञादेरपि प्रचुरः प्रयोगो दृश्यते इति तद्व्युदासफलोऽप्येष नियमः स्यात् , ____ अपि च विधिफलः सर्वत्र विधिनियमो भवति ऋतावुपेयादित्यादि निषेध. फला तु परिसंख्या पञ्चपञ्चनखा भक्ष्या इति तदयमपशब्द प्रयोगप्रतिषेधफलश्च नियमश्चेति व्याहतमभिधीयते,
परिसंख्या तहि भविष्यतीति चेन्न, शब्दापशब्दयोयुगपत्प्राप्त्यभावात , "तत्र चान्यत्र च प्राप्तौ परिसंख्या ऽभिधीयते" इति न्यायात्
(१) तन्त्रवातिके अ० १ पा० ३ सु० २४। यथा ब्रीहित्वकलजत्वादिजाती. रादाय तत्र विधिप्रतिषेधावुपपद्यते न तथा गवादिनां गव्यादीनां च जातिरूपेण विधिः प्रतिषेधौ सम्भवतः शब्दत्वजातेरुभयत्र समत्वात् साधुत्वासाधुत्वयोश्चा व्यवस्थितत्वा. दित्यर्थः ।
(२) तन्त्रवार्तिके अ० १ पा० ३ सू० २४ । कीदृशश्चात्र नियमः कल्प्यते किं साधुभिरेव भाषितव्यमुत साधुभिर्भाषितव्यमेवेति तत्र नाद्य इत्याह यदीति यदि ह्येकार्थाः साध्वसाधवो विकल्पेन प्राप्नुयुस्तदा साधुनियमावकाशः ल्यान चैवं न द्वितीय: इत्याह नियतमिति । तथा च भाषणाभाव एव स्यादित्यर्थः ।
४८ न्याय