________________
न्यायमञ्जर्याम्
इति ते ऽपि साधवः स्युः, असाधुत्वमप्यवाचकत्वमुच्यते तच वायसवाशिता. दिषु व्यवस्थितं न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न ते ऽसाधवः, ___ अथ ब्रूयान्नार्थप्रतीतिसाधनत्वमानं साधुत्वं धूमादिमिरतिव्याप्तेरपि तु विशिष्टक्रियाकारणत्वं वाचकत्वं तञ्च गवादिष्वेवास्ति न गाव्यादिष्विति न ते साधव इति ।
एतदपि असमीक्षिताभिधानम्, अभिधानक्रियाकारणत्वं हि वाचकत्वमिति पूर्वमेव सुनिपुणमुपपादितम् एतच्च गवादिषु गाव्यादिषु समानमिति सर्वएव साधवः।
अथ लक्षणानुगतत्वं तद्बाह्यत्वं च साधुत्वमसाधुत्वं च वय॑ते तदयुक्तं पारिभाषिकत्वमप्रसङ्गात् , न चान्यत्किमपि साध्वसाधुलक्षणमतिसूक्ष्मया ऽपि दृष्ट्या शक्यमुत्प्रेक्षितुमतो वाचकावाचकावेव साध्वसाधू इति स्थितम् , तेन वयोः प्रवर्तमानौ विधिनिषेधाविमौ व्यथौ भवेताम् , कथम्
साधुभिर्भाषणं तावत्प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्चाप्राप्तरेव न कल्पते(१)॥ न हि सलिलं पिबेदनलं न पिबेदिति विधिनिषेधौ संभवतः, सलिलपानस्य स्वतः प्राप्तत्वादप्राप्ते च शास्त्रस्यार्थवत्त्वात, ज्वलनपानस्य च कस्यां चिदवस्थायामप्राप्तः प्रतिषेधानर्थक्यात् , प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति न हि ग्रीष्मे ज्वालायोगोपनीततृविकारः करभो ऽपि यतेत इति, तत्रैतत्स्याद् गवादेर्गाव्यादेश्च वाचकत्वाविशेष साध्वसाधुशब्दोचारणकरणकपुण्यपातकप्राप्तिपरिहा. रप्रयोजननियमविधानाय शास्त्रसाफल्यं भविष्यति, तदुक्तम् “वाचकत्वाविशेषे ऽपि नियमः पुण्यपापयोः” इति ।
एतदपि दुर्घटम् , प्रविधेयांश्च निषेध्यांश्च शब्दानुपदर्य नियमो विधातव्यः एभिर्भाषितव्यमभिनेति तत्र यद्यभये ते शब्दाः प्रतिव्यक्ति नामग्रहणपरिगण. नपुरःसरमुपदश्यरंस्तदयमर्थः कल्पशतजीविनो भगवत: परमेष्ठिनो ऽपि न विषयः प्रविततवदनसहरसंकुलमूर्तेरनन्तस्यापि न गोचरो वाचस्पतेनं भूमिः सरस्वत्या अतिभारः तेषामानन्त्येन दर्शयितुमशक्यत्वात्,
अथ किं चिदुपलक्षणमवलम्ब्य तेषां वर्गीकरणमुपेयते हन्त तर्हि दृश्यतां न च तत्सम्भवति,
(१) तन्त्रवार्तिके १०१ पा० ३ सू० २४ । पूनामुद्रिते तन्त्रवार्तिके "वा. चकैाषितव्यं हि प्राप्तस्वान्न विधीयत" इत्येवंविधः स च युक्तः स्पष्टार्थोऽयं श्लोकः ।