________________
प्रमाणप्रकरणम्
३७५
च्यते तत्रापि स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्रत्वानुपपत्तेरङ्गसिद्धेश्व वैदिकविध्यपेक्षितार्थसम्पकित्वं नूतनमस्येषितव्यम, साधुभिर्भाषितव्यमसाधुभिनेत्यनयोरेव विधिनिषेधयोरिति चेद्__ नन्वेतावेव विधिनिषेधौ तावद्विचारयामः किं प्रकरणे पठितौ किमनारभ्याधीतो क्लप्ताधिकारी कल्प्याधिकारौ वेति ।
साध्वसाधु शब्दविभागानुपपत्ति:---.. प्रास्तां चदं वितता खल्वियं चिन्ता: साध्वसाधुशब्दस्याप्रसिद्धत्वात्किंविपयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम, ब्रीहिभिर्यजेत न कलजं भक्षयदिति श्रीहिकलजस्य स्वरूपस्य लोकतो ऽवगतो तद्विषयविधिनिषेधबोधो न दुर्घट: इह तु बोहय इव कलअमिव न साध्वसाधुशब्दः प्रविवेकन लोकतो ऽवगम्यते, कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विष. यतामुपयाति न जातु तद्गतं साधुत्वमसाधुत्वं वा, न हि शब्दत्वादिजातिव. दुदात्तादिधर्मवञ्च साध्वसाधुतायां कस्य चिदपि श्रौत्रः प्रत्ययः प्रसरति, प्रत्यक्षप्रतिषेधे च सति तत्पूर्वकसम्बन्धग्रहणसम्भवादनुमानमपि निरवकाशमेव,
शब्दस्तु द्विविधः पुरुषप्रणीता वैदिको वा, तत्र पुरुषप्रणीतः प्रत्यक्षानुमानविषयीकृतार्थप्रतिपादनप्रवण एव भवति इति तदपाकरणादेव पराकृतः, वैदिकस्तु सम्प्रति चिन्त्यो वर्तते स हि सिद्ध साधुत्वे तद्विधौ सिद्धे चासाधुत्वे तनिषेधे व्याप्रियते न पुनस्तत एव तत्सिद्धेयुज्यते तथा ऽभ्युपगमे वा दुरुत्तरमितरेतराश्रयमवतरति विधिनिषेधसिद्धौ साध्वसाधुशब्दसिद्धिः साध्वसाधुशब्दसिद्धौ च विधिनिषेधसिद्धिरिति,
किं चेदं साधत्वं नाम यदि वाचकत्वं गाव्यादयो ऽपि सुतरां वाचका इति ते ऽपि कथं न साधवः, अर्थावगतिसाधनाद्धि साधुत्वं तच्च यथा गाव्यादिषु झटित्येव भवति न तथा गवादिष्विति प्रथमं ते एवासाधवः, एवं च यदाहुः 'असाधरनुमानेन वाचकः कैश्चिदिष्यते' इति
तदत्यन्तमसांप्रतम् , सोपानान्तरप्रतीतिप्रसक्तविपर्ययस्य च लोके प्रसिद्ध. त्वात, यस्तावदनधिगतव्याकरणसरणिः पामरादिः स गाव्यादिशब्दश्रवणे सति तावत्येव जातसन्तोषः तत एवार्थमवगच्छन् गवादिशब्दानुमामनधिरुयैव व्यवहरति हेमगिरिमुत्तरेण याशि माशेरनुभूतानि तरुकुसुमफलानि तथाविधास्तस्य साधुशब्दा इति सर्वात्मना ऽनवधारितसम्बन्धः स कथमनुमातुं प्रभवेत,
येऽपि व्याकरणार्णवकर्णधाराः चिराभ्यस्तसूक्तयः सूरयः तेऽपि गाव्यादिभिर्व्यवहरन्तो ऽनुमानक्रममनुहरन्त एव तेभ्यो ऽथै प्रतिपद्यन्ते इति प्रत्यान्मवेदनीयमेतत्तम्मादाचकत्वमेव साधत्वं तच्च गवादिष्विव गाव्यादिषु दृश्यते