SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ न्यायमचर्याम् भिहितं, न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते, कोऽयं लोको नाम किं यः कश्चित्प्राकृत उत वैयाकरणः संस्कृतमतिरिति, तत्र शाकटिकाः साधुशब्दप्रयोगानभिज्ञमनसा निसर्गत एवाक्षतकण्ठा वराकाः संस्कारबाह्येाव्यादिभिरेव शब्दैर्व्यवहरन्ति तैश्च व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमवाप्नुयुः, __ यद्यपि चास्ति एषि एमि इति कश्मीरेषु गच्छेति दार्वाभिसारेषु करोमीति मद्रेषु कतिपये साधुशब्दाः पामरैरपि प्रयुज्यन्ते तथा ऽप्यतीव प्रविरलसञ्चारो ऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्दव्युत्पत्तेः । अथ व्याकरणस्य वेदाङ्गत्वात्ततः साध्वसाधुशब्दप्रविभागमवगच्छन्तः साधुभिर्भाषितव्यमसाधुभिर्नेति विधिनिषेधनियमितमतयः साधुभिरेव शब्दै. र्व्यवहरन्तो विद्वांसस्तनीयसैव क्लेशेन वैदिकेष्वपि शब्देषु व्युत्पत्तिमासादये. युरिति कथ्यते । तदपि न चतुरश्रम् , इतरेतराश्रयप्रसङ्गात् , वेदे हि सिद्धप्रामाण्ये तदङ्गभूतव्याकरणाभ्याससमासादितसाध्वसाधुशब्दप्रविवेकवृद्धव्यवहारपरिचयपुरस्सरा वैदिकशब्देषु व्युत्पत्तिः तात्पत्तौ च सत्यां बोधकत्वादप्रतिपादकत्वलक्षणम. प्रामाण्यमपोझतो वेदस्य प्रामाण्यमिति । ___अथ वेदाङ्गमिदमिति श्रद्धामवध्य यदृच्छाधीतेनैव व्याकरणेन पूर्वोक्तकार्यसिद्धेनेंतरेतराश्रयमिति वय॑ते किमिदानीं नाटकप्रकरणादिकाव्योपयोगिसंस्कृतभाषाविशेषपरिज्ञानायैव प्राकृतलक्षणवद्याकरणमध्येतव्यं तथा ऽभ्युपगमे वा ऽनङ्गत्वाविशेषात्प्राकृतलक्षणप्रसिद्धशब्दव्यवहारानुसारेण वेदिकशब्दव्युत्प. रापाद्यते इति सुतरां दुःस्थत्वम्, अपि च सत्यपि व्याकरणाधिगमे ते ऽपि साधुभिर्भाषितव्यमित्युपदेशे सत्यं वदत वेदार्थानुष्ठानपरायणेो ऽपि कृतबुद्धिरपि निषिद्धाचरणपराङ्मुखो ऽपि श्रोत्रियो ऽपि श्रद्दधानो ऽपि यदि कश्चित्केवलैः साधुभिरेव शब्दैः व्यव. हरन् दृष्टः एकाकी तैश्व नानार्थक्रियासाधनभूतभूरिव्यवहारं निर्वहन तदनुचरः परिज्ञातो न भूयः केवलसाधुशब्दप्रयोगकुशलः कल्पनीयः कुतश्वासौ लभ्यते, तस्मान वृद्धव्यवहारावेदार्थव्युत्पत्तिरुपपद्यते। व्याकरणेन वेदार्थावधारणानुपपति:-- अथ व्याकरणमेव वेदार्थव्युत्पत्तो उपायतां प्रतिपत्स्यते इति मन्यसे तदपि कथमिति चिन्त्यम् , न हि विवरणकार इव पाणिनिर्वेदं व्याचष्टे व्याचक्षाणे ऽपि वा परिमितदर्शिन्यस्मादृशे द्वेषादिदोषकलुषितमनसि तस्मिन्नस्मदादीनां वेदार्थ बुभुत्समानानां कीडशो विस्रम्भः किं यथैष व्याचष्टे तथैव वेदार्थो ऽन्यथा वेति, यदि तु साध्वसाधुशब्दविवेकद्वारेण व्याकरणं कारणं वेदार्थव्युत्पत्तेरित्यु
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy