________________
प्रमाणप्रकरणम्
३७३
आह लोके प्रमाणान्तरपरिच्छेद्यत्वाद्वाक्यार्थस्य तदवगमोपायत्वं शब्दानां योजयितुं शक्यते, वेदार्थस्तु अतीन्द्रियो न च रागादिदोषकलुषमनसामस्मदा. दीनामतीन्द्रियपदार्थदर्शनकौशलमस्ति, तददर्शिनां च तत्र वृद्धव्यवहाराद्वय. त्पत्तिरेव न सम्भवति, सो ऽहमद्य वेदार्थ बुभुत्समानो वेदविदं कञ्चिदाचार्यमभिगच्छेयं सो ऽप्यतीन्द्रियार्थदर्शी न भवतीति तस्यापि तथैव व्युत्पत्त्य. भाव इति तेनाप्यन्यः कश्चिदभिगन्तव्यः, सो ऽप्यहमिव व्युत्पत्त्यभावादन्य. मुपासीत सो ऽप्यन्यमित्यन्धपरम्परा प्राप्नोति, न च वेदे एव वृद्धिरादैजिति पाणिनिरिव मस्त्रिगुरुरिति ब्रुवन् पिङ्गल इव हस्तः करः पाणिरिति कथयन्न. भिधानमालाकार इव स्वयमुपदिशत्येषो ऽस्य मामकस्य शब्दस्यार्थ इति त. स्मात्सर्वथा दुरवगमो वेदार्थः, तदाह
स्वयं रागादिमानार्थ वेत्ति चेत्तस्य नान्यतः।
न वेदयति वेदेो ऽपि वेदार्थस्य कुतो गतिरिति ।एमाणवा-३।१११ अथ निगमनिरुक्तव्याकरणवशेन तदर्थ कल्पना क्रियते तहिं नानामतित्वादुपदेश्यानामनेकार्थत्वाच्च नानामुपसगेनिपातानां च न नियतः कश्चिदर्थों व्यवस्थापयितुं शक्यते, अन्यथा तत्कल्पनासम्भवात् , आह चतेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रतो।
। खादेच्छवमांसमित्येष नार्थ इत्यत्र का प्रमति || पुमागवा. ३१३१८ तदेतद बधिरस्य रामायणं वर्णितमस्माभिः य एवमपि श्रुत्वा वेदार्थपरि. गमाभ्युपायं मृगयते, अनेन हि पूर्वोक्तेन वाक्यार्थपरिगमोपायप्रकटनेन सर्वम. पाकृतं भवति, उक्तं हि नाभिनवाः के चन वैदिकाः शब्दा रचनामानं वेदे भिद्यते न तु पदानि, सर्गात्प्रभृति च प्रवृत्तो ऽयं वेदविदां व्यवहारः ततश्च दीघप्रबन्धप्रवृत्तादयत्वे वयसि व्युत्पद्यामहे व्युत्पद्यमानाश्च तं तमर्थ प्रतिपद्यामहे,
किं च वेदार्थस्य परिज्ञामोपयिकानि व्याकरणमीमांसाशास्त्राणि क्व गतानि यदेषु जीवत्सु न वेदार्थों ऽवधार्यते, अपि च रे मूढ स्वयं रागादिमतः प्रत्यक्षमतीन्द्रिये ऽर्थे मा प्रतिष्ट न तु रागादिमानमिहानं जुहुयात्स्वर्गकाम इति वाक्यादपि अग्निहोत्राख्यं कर्म स्वर्गसाधनमिति नावगच्छेत्, अतीन्द्रिये ऽर्थे नियता कुतो व्युत्पत्तिरिति चेद् उक्तमत्र वेदवत्तद्व्यवहारस्य तदर्थपरिगमोपायस्य सुचिरप्ररूढत्वात् , वेदश्चाथश्च तदवगमश्च तदुपायश्च तदनुष्ठानं च नाद्यत्वे प्रवृत्तानि किं तु केषां चिन्मते अनादोन्येवास्मन्मते तु जगत्सर्गात्प्र. भृति प्रवृत्तानि कस्तेष्वध पर्यनुयोगावसरः, सेयमनेन पापकारिणा खादेच्छव. मांसमित्याद्यपभाषणेन केवलमवीचिकेसरकुटुम्बिनमात्मानं कर्तु वेदनिन्देव मन्दमतिना कृता न दूषणमभिनवं कि चिदुत्प्रेक्षितमिति,
अथापर आह किमेष तपस्वी पराणुद्यते किमनेनापराद्धं किमनेन विरुद्धमा