________________
३७२
न्यायमअयम्
यागादेः लिङ्वाच्यत्वानुपपत्तेः न च तौ पृथक्पृथक् स्वकार्य कुरुतः । एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्य करिष्यन्ति न च परस्परमर्थमभिधास्यन्ति वाक्यान्यपि प्रकरणपतितान्येवमेव, तदुक्तम्प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम् ।
पदं पदान्तरं तद्वद्वाक्यं वाक्यान्तरं तथेति ॥ श्रयमेव च पक्षः श्रेयान् यत्संहत्यकारित्वं पदानामसंकीर्णार्थत्वं च - निरपेक्षप्रयोगे ऽयः शलाका कल्पना भवेत् । तदन्विताभिधाने तु पदान्तरमनर्थकम् ॥ संहत्यकारिपक्षे तु दोषो नैको ऽपि युज्यते । सेनायमुपगन्तव्य मार्गे हि हतकण्टकः ॥ अभिधात्री मता शक्ति: पदानां स्वार्थनिष्ठता । तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः ॥ तेनान्विताभिधानं हि नास्माभिरिह मृष्यते । अन्वितप्रतिपत्तिस्तु बाढमभ्युपगम्यते ॥ संहत्यकारकत्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणमपि तु प्रधानं
कार्यमेव कर्तुम, तदुक्तम् -
वाक्यार्थ प्रत्यये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादन मिति (१) । सेयं व्युत्पत्तिमूला पदविसरसमुद्भिद्यमानाङ्कुर श्रीः संस्कारोदारपत्रा कुसुमचयवती प्रोल्लसद्भिः पदार्थः । प्रज्ञावल्ली विशाला फलति फलमिदं स्वादुवाक्यार्थतत्त्वः । नैराकाङ्क्षयं लसद्भिर्हृदयमुपगते यान्ति यस्मिन् पुमांसः ॥
आह च
पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते । पुष्पितासा पदार्थेषु वाक्यार्थेषु फलिष्यति ( २ ) | तस्मादनया नीत्या सम्प्रत्ययो भवति साधुः । संसृष्टाश्च पदार्था वाक्यार्थ इति न्यवेदि प्राक् ।। वेदार्थावधारणाक्षेपः
यश्चैष लोकव्यवहारसिद्धिः प्रादर्शि वाक्यार्थमितावुपायः । स एव वेदे ऽप्यवधारणीयः तत्रापि तान्येव पदानि ते ऽर्थाः ॥
(१) श्लोकवार्तिके वाक्याधिकरणे २०० ३४३।३५८ पृष्ठे व्याख्यताऽयं श्लोकः । (२) तन्त्रवार्तिके अ० १ पा० ३ सू० ३० ।