________________
प्रमाण प्रकरणम्
३७१
गोशब्दो हि स्वार्थमनवगत विशेषगुणक्रिया सामान्यान्वितमभिधत्ते तावत्यन्वि - ताभिधानम्, शुक्लादिगुणविशेष सम्बन्धस्तु पदान्तरादवगम्यते सेो ऽयं विशेषा ऽभिहितान्वय इत्येतदपि तादृगेव ।
दोषो ऽन्विताभिधाने यः सामान्ये ऽपि स तादृशः । दोषस्तुल्या विशेषेऽपि यश्वोक्तो ऽभिहितान्वये ॥
न चेदमपूर्ववस्तु वर्णितमभिहितान्वयवादिनो विशेषे एवाभिहितान्वय श्रीयते इति प्राक्तन एवेष्टः पन्था वेदितव्यः, कथं तर्ह्ययमाभिघानिको व्य• वहारः सङ्कुलमिवैनं पश्यामः सर्वत्र दोषसम्भवात् ।
उच्यते न कदा चिदत्र सङ्कुलता संहत्यकारीणि हि पदानीत्युक्तम्, समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते स च गुणभूतेतरपदार्थ संसृष्टः कश्चित्पदार्थ एवेति किमत्र सङ्कुलम् |
"
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः, मैवम्, नेदमन्विताभिधानम्, कथं तर्हि संहत्यकारिता पदानाम्, उच्यते संहत्यकारिता ऽप्यस्ति न चान्विताभिधानम्, अन्वितमर्थ पदानि संहत्य सम्पादयन्ति न त्वन्वितमभिदधति, किमिदानीं कुर्वन्ति वाक्यार्थ पदानि घटमिव मृदादीनि, एतदपि नास्ति, ज्ञापकत्वात्तेषाम् का तर्हीयं वाचोयुक्तिः संहत्यकारीणि पदानि न चान्वितमभिदधतीति, इयं वाचे। युक्तिः पदान्यन्वितं प्रत्याययन्ति नान्वितमभिदधति, नाभिधात्री शक्तिरन्वितविषया किं त्वन्वयव्यतिरेकावगतनिष्कृष्टस्वार्थविषयँव, तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सह व्यापाराद् व्यापारम्य च तदीयस्य निराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात् तथा हिअन्यथैव प्रवर्त्तन्ते प्रत्यक्षाद्युद्भवा धियः । अर्थ पूर्णमपूर्ण वा दर्शयन्त्यः पुरः स्थितम् ॥ अन्यथैव मतिः शब्दे विषयेषु विजृम्भते । प्रतिपत्तुरनाकाङ्क्षप्रत्ययोत्पादनावधिः ॥ अत एव पद लोके केवलं न प्रयुज्यते ।
न हि तेन निराकाङ्क्षा श्रोतुराधीयते मतिः ।।
नन्वभिधानव्यतिरिक्तः को ऽन्यः शब्दस्य कृत्स्नफलपर्यन्तः प्रत्यायनात्मा व्यापारः, अस्ति कश्चिद्यः सर्वैरेव संसर्गवादिभिरप्रत्याख्येयः, न हि संसर्गो भिधीयते प्रतीयते च वाक्यात् ।
ननु संसृष्ट्राभिधाने सति संसर्गः प्रतीयते नान्यथा, नैतदेवं संहत्यकारित्वादेव संसर्गावगतिसिद्धेः, न हि संहत्यकरणमसंसृष्टं च कार्य क्व चिद् दृश्यते, अपि च, प्रकृतिप्रत्ययौ परस्परापेत्तमर्थमभिदधाते न च प्रकृत्या प्रत्यSभिधीयते नियोगस्य धातुवाच्यत्वान्न च प्रत्ययेन प्रकृत्यर्थो ऽभिधीयते