________________
३७०
न्यायमअर्याम् ति गोशब्दः तदनभिधाने तदन्वितानवगमायेन सह संसर्गः स न गृह्यते तत्संस : टश्च गृह्यते इति विप्रतिपिद्धं स्यात् , तदेभिधाने वा तद्वन्सर्वाभिधानमित्येकमेव गोपदं सवाथै भवेत् , तस्मान्न सर्वत्राभिधात्री शक्तिः पदस्योपपद्यते इति नान्विताभिधानम् ।
अन्विताभिधानपक्षे च कथमङ्गल्यग्रवाक्ये ऽपिनान्वयस्स्यात् शाब्दो ऽस्त्येव समन्वय इति चेदर्थासंस्पर्शी शब्दः प्राप्नोति बहिरन्वयाभावात् , प्रकाशकत्वमात्रं व्यापार इति चेद् बाढम् तत्त अनन्बितविषयं वेदितुं युक्तं न पुनरन्वितविषयमेवे. ति शक्यते नियन्तुम्, दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते यतः, न तद्वाक्यमिति चेत् तदङ्गल्यग्रवाक्यमपि वाक्यमेव, आधाराधेयक्रियासंसर्गप्र. तीतिस्तु भ्रममात्रं तस्मादन्वितमर्थमभिदधति पदानीत्यसमीचीनम् ,
तत्किं शलाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्यन्ताम् एतदपि नास्ति तथाविधव्यवहाराभावात् , पश्चादन्वयस्य च दुरवगमत्वाद्विरम्य व्यापारस्य चासंवेदनात्तस्मात्पक्षद्वयमपि न माय, तदुक्तम्
मतद्वयमपीदं तु नास्मभ्यं रोचतेतराम् ।। कुतोऽन्विताभिधानं वा कुतो वा ऽभिहितान्वयः ।।
मतान्तरं तत्खण्डनं च-- अन्या तु वाचोयुक्तिः कैश्चित्कृता अन्वीयमानाभिधानमभिधीयमानान्वय. श्चेति सा ऽपि न हृदयङ्गमा
न हि द्वे अनुभूयेते क्रिये एते पृथक्स्थिते ।
अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया ॥ ते हि क्रमेण वा स्यातां युगपद्वा क्रमपक्षे पूर्वमन्वयक्रिया चेत्तदिदमन्विताभिधानमेव नान्वीयमानाभिधानम् , पूर्व चेदभिधानमभिहितान्वय एव ना. भिधीयमानान्वयः युगपत्त क्रियाद्वयसंवेदनं नास्ति अर्थगतायाः क्रियायाः शब्दप्रयोगकाले ऽनुपलम्भात् ।
अभिधानक्रियैवैका तदभिः परीक्ष्यते ।
अन्वीयमानता ऽर्थानामभिधानाद्विना कुतः ॥ गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण कुतो ऽन्वयमवगच्छामः ।
उक्ततनतैवेयं न पुनर्वस्तु.नूतनम् । न चात्रापि निवर्तन्ते दोषाः पक्षद्वयस्पृशः ।।
तात्पर्यवत्तयाऽन्वितप्रतीति:-- अन्ये मन्यन्ते सामान्येनान्विताभिधानं विशेषतश्चाभिहितान्वय इति,