________________
प्रमाणपकरणम्
तत्राङ्गल्यप्रवाक्ये ऽपि शाब्दो ऽस्त्येव समन्वयः । आधाराधेयक्रियानिर्देशस्यात्र प्रतीयमानत्वात् ।
वस्तुतो ऽसम्भवो यस्तु तुल्य एव स आवयोः ।
अयोग्यत्वेन संसर्गप्रतीत्यर्थनिवर्हणात् ॥ यदि तु शाब्दो ऽनन्वयो भवेत् कचटतपादिवर्णनिर्देशमात्रमिदं स्यात् दशदा. डिमादिप्रवादवदवापि अन्विताभिधानं न विरुद्धं बाधकस्त्वन्यविषय एव न शब्द. संसर्गविषय इत्युक्तम् , अत एव स्वसामर्थ्यसिद्धनिर्विबन्धकव्यापारे शब्दे स्व. तो वेदे प्रामाण्यमनाकुलं निर्वक्ष्यत्यपौरुषेयतया विप्लवासम्भवात् स्वव्यापारस्य तत एव शुद्धत्वमित्यलमतिप्रसङ्गेन ।
इत्यन्विताभिधानेन वाक्यार्थज्ञानसम्भवात् । व्युत्पत्तिरहितः प्राज्ञैः प्रहयो ऽभिहितान्वयः ।।
अन्विताभिधानखण्डनम् - तदेतदपि नानुमन्यन्ते, यदुक्तं वृद्धव्यवहाराद्वयुत्पत्तिरिति तत्सत्यम् वाक्येन व्यवहार इत्येतदपि सत्यम् , शिबिकोद्यच्छन्नरवत्सर्वाणि पदानि कायें संहत्य व्याप्रियन्ते इत्येतदपि सत्यमेव, व्युत्पत्तिः चिन्त्यताम् किमेकघनाकारसंघातका. र्यनिष्ठेव किं वा पदार्थपर्यन्तेति, पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरिहार्या सा च बहुप्रमादेत्युक्तम्, पदार्थपर्यन्तायां व्युत्पत्तौ नूनं निर्धारणीयमिया. न्पदस्यार्थ इति, भवद्भिरपि शकटावयवदृष्टान्तवर्णनेन पदव्यापारनिर्धारणमङ्गीकृतमेव, इतरथा हि पदार्थनियमानपेक्षणे गामानयेति विवक्षावानश्वपदमपि निमित्ततयोपाददीत, न हि भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव वा. क्यार्थप्रत्ययः, तदसौ यावान आवावापोद्वापपर्यालोचनया गोपदस्यार्थों निर्धायते तावानेव सङ्घातकार्ये ऽपि व्याप्रियमाणस्य तस्यार्थः, ___नन्वाकाङ्गितयोग्यसन्निहितार्थोपरक्तो ऽस्यार्थ इत्युक्तम् , न सर्वदा संहतव्याप्रियमाणमेतत्पदं पश्यतः तवायं भ्रमः, अर्थः तावानस्य यावत्यभि. धात्री शक्तिः, कियति च तस्याभिधात्री शक्तिः कियति तस्यानभिधात्रा शक्तिः, यावन्तमर्थमन्योन्यमाकाचितश्च योग्यश्च सन्निहितैश्च संयुज्यमानं न मुञ्चति, कियन्तं च न मुञ्चति गोत्वमानं तद्वन्मानं घेत्यतस्तावत्येवाभिधात्री शक्तिर. न्वयतिरेकाभ्यामस्य निर्धार्यते, अतः परमेकस्य पदस्याप्रयोगात्सर्वदा सङ्घातकार्यरहितकेवलस्वकार्यचातुर्यानवधारणात्प्रधानकायें तात्पर्यशक्तिरस्य व्याप्रियते नाभिधात्री, तां च पृथगविवेचयता भवता ऽन्विताभिधानमभ्युपगतं तच्च न युक्तं सर्वत्राभिधान्याः शक्तरविशेषात् , पदार्थनियमानवधारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषानपायात , येनान्वितमर्थमभिदधा
४७न्या .