________________
उच्यते,
३६८
म्यायमअर्याम्
अन्विताभिधानवादोपसंहार:तस्मादन्विताभिधायोनि पदानीति स्थितम् , एष एव हि संसर्गपन्थाः ।
व्यतिषक्तार्थबुद्धया हि व्यतिषङ्गो ऽवगम्यते । अपरं तु न संसर्गप्रतीतेरस्ति कारणम् ॥ न खल्वानय गां शुक्लां संसर्ग इति कथ्यते । व्यवहारे क चिवृद्धः पदं संसर्गवाचकम् ॥ प्रयुज्यमानमप्येतद्बालिशेन हि केन चित् ।
अनन्वितार्थमेव स्यादशदाडिमवाक्यवत् ।। तस्मादन्वितानामेवाभिधानं युक्तम् , श्राह
अङ्गुल्यमादिवाक्येषु कथां तव समन्वयः ।
उक्तानामपि संसर्गे का तव समन्वयः ।। आह,
नन्वत्र योग्यताभावादसंसर्ग उपेयते ।
भाकाक्षादित्रयाधीनः संसर्गो हि मयेष्यते ।। उच्यते
मयापि योग्यासन्नादिसंसृष्टस्वार्थवाचिता।
पदानां दर्शिता सा च तेषु नास्तीत्यनन्वयः ॥ आह अन्विताभिधानवादी हि भवान् ततश्च
भवतो ऽनभिधानं स्यादन्वयासंभवादिह ॥ अहं त्वभिहितान्वयवादी तेन
मम ह्यनन्वितत्वे ऽपि नाभिधानं विरुद्धयते । कथं मीमांसकेनापि भवता सूक्ष्मदर्शिना । नाद्यापि शब्दव्यापारः सुस्पष्टमवधारितः॥ प्रकाशकत्वं शब्दस्य व्यापारो हि निसर्गतः । पुंसस्तु गुणदोषाभ्यां तस्मिन्सदसदर्थता ॥ क्रियाकारकसंसर्गबुद्धिरन्या ऽपि शब्दजा।
तादृश्येवायथार्था तु नरबुद्धिप्रमादतः ॥ तदुक्तम्-"प्रमाणान्तरदर्शनमत्र बाध्यते” इति ।
अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः । शब्दे कर्मणि तत्रापि बाधकानुपसर्पणात् ।।
उच्यते