SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् ३६७ तार्थकार्येव पदमिति यक्तम् , तदिदमुक्तं 'संहत्यार्थमभिदधति पदानि वा. क्यम् एकार्थः पदसमूहो वाक्यम्' इति, तदेवमवयत्रकार्योपलम्भान्न वैयाकरणवन्निमितान्यपि निह नुमहे कृत्स्नफलसिद्ध्यवधि व्यापारपरिनिश्चयाच्च नान्यमीमांसकवच्छृद्धपदार्थाभिधानमुपमच्छामहे इति, अन्विताभिधाने आपादित दूषणानां परिहारः । यत्पुनरभ्यधायि प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया अन्यथा नवकवि. श्लोकादर्थः, पदार्थविदा न प्रतीयेतेति तदिदं व्यत्पत्त्यनभिज्ञस्य चौद्यम , न हीयं व्यत्पत्तिः गोशब्दस्य शुक्लान्वितो ऽर्थः स हि व्यभिचरति कृष्णान्वितस्यापि तदर्थस्य दर्शनानापि सर्वान्वितस्तदर्थ आनन्त्येन दुरवगमत्वात , किं त्वाकाक्षितयोग्यसन्निहितार्थानुरक्तोऽस्यार्थ इति, एतां च व्युत्पत्ति वाक्यान्येवावापो. द्वापरचनावैचित्र्यभाजि सब्जनयन्ति पदार्थपर्यन्तापि भवन्ती व्यत्पत्तिरीडशी दृश्यते न शुद्धपदाथविषया पदेन व्यवहाराभावादित्युक्तम् , तथापि न न ज्ञायते इयान्पदस्यार्थ इति शकटाङ्गवदावापोद्वापाभ्यां तत्कार्यभेदस्य दर्शितत्वात , त. दित्शंन प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते सन्निहितयोग्याकाक्षितार्थोपरक्तस्वार्थाभिधेयत्वेन हि क चिद्गृहीतः सम्बन्धः सर्वत्र गृहीतो भवति ततश्च नवकविश्लो. कादप्यर्थप्रतिपत्तिरुत्पस्यते, पदपदार्थयोस्तु न व्युत्पत्तिरुपायाभावादित्युक्तम् , यदपि पदान्तरोच्चारणमफलमिति तदपि परिहृतम् , पदान्तरसन्निधाने हि सर्वाणि पदानि कृत्स्नकारीणि भवन्तीत्युक्तत्वात् , कि पदान्तरसन्निधानेन क्रि. यते इति चेत्सर्वकारकेष्वपि तुल्यो ऽयमनुयोगः, संहत्य तु सर्वाणि कुर्वन्ति का. रकाणीत्युच्यन्ते तथा पदान्यपि अर्थाभिधानेनापि चोपकुर्वत्सु पदेषु नाभिहि तान्वयो ऽनन्वितार्थे व्यत्पत्त्यभावादनुपगमे वा दुरुपपादः पदार्थानामन्वयः उपायाभावात् , नन्वाकाङ्क्षासन्निधियोग्यत्वान्यभ्युपाय इत्युक्तं न युक्तमुक्तम् ,कस्येयमाका. ङक्षा शब्दस्यार्थस्य प्रमातुवो शब्दार्थयोम्तावदचेतनत्वान्नाकाक्षायोगः फलत इयं तत्र तत्र वाचायुक्तिः शब्दः शब्दान्तरमाकाङ्क्षत्यर्थो ऽर्थान्तरमिति, प्रमातुः पुनः स्वतन्त्रस्याकाङ्क्षानप्रमाणं पुरुषेच्छया वस्तुस्थितेरघटमानत्वात्, शब्दाख्यं प्रमाणं पृष्ठभावेन तु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानाम् संसर्गहेतुरित्येवं शब्दस्यायमियानिषारिव दीर्घदीर्घो व्यापारः उपरतव्यापारे तु शब्दे पुरुषाका. कुक्षामात्रं न सम्बन्धकारणम् । अशाब्दत्वं च वाक्यार्थप्रतीतेरित्थमापतेत् । व्यवधानमयुक्तं च साक्षाच्छाब्दत्वसंभवे ।।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy