________________
न्यायमचर्याम्
अभिहितान्वयवाद खण्डनम्___ एवं प्राप्त अभिधीयते न व्युत्पत्तिनिरपेक्षा दीप इव शब्दो ऽर्थमवगम यतीति व्युत्पत्तिश्च वृद्धव्यवहाराद् वृद्धानां च व्यवहारो वाक्येन न पदेन केव. लस्य पदस्याप्रयोगाद् ।।
अर्थप्रकरणप्राप्तपदार्थान्तरवेदने। पदं प्रयुज्यते यत्तद्वाक्यमेवोदितं भवेत् ।। वक्ता वाक्यं प्रयुङ्क्ते च संसृष्टार्थविवक्षया ।
तथैव बुद्धयते श्रोता तथैव च तटस्थितः ।। ___ सेयं वाक्यस्य वाक्याथै व्युत्पत्तिः, वाक्यं च किमुच्यते संहत्यार्थमभिदध. ति पदानि वाक्यम् एकार्थः पदसमूहो वाक्यमिति वाक्यविदः, तत्रायं पदसमूह एकार्थो भवति एवं न संहत्यार्थमभिदध्युः पदानि यद्येकस्यैव पदस्य व्यापार:, यथा हि बाह्यानि करणानि काष्ठादीनि पाके व्याप्रियन्ते यथा च शिबिकाया उद्यन्तारः सर्वे शिबिकामुद्यच्छन्ति यथा त्रयो ऽपि ग्रावाण उखां बिभ्रति तथा सर्वाण्येव पदानि वास्यार्थमवबोधयन्ति तदिदमन्विताभिधानमन्यानन्वितनिष्कृ ष्टस्वार्थपर्यवसायित्वे हि सति न सर्वेषां वाक्यार्थव्यापारः स्यात् ,
नन्वेवमेकैकस्य कृत्स्नकारित्वे सत्येकस्मादेव कृत्स्नसिद्धेः पदान्तरोच्चार• णं व्यर्थमित्युक्तम्, नैतत् पदान्तरेण विनवैकस्मात्कृत्स्नकारित्वसम्पत्त्यभावात् , न तयेकं कृत्स्नकारीति चेन्मैवम् , एकैकस्य कृत्स्नफलपर्यन्तव्यापारपतितत्वा. देकैकस्मिन्सतिकृत्स्नफलपर्यन्तो व्यापारो निवर्त्तते एकैकेन विना न निवर्तते इत्येवमेकैकं कृत्स्नकारि भवति, ___ नन्वेवं तर्हि समुदाय एव कर्ता भवतु किं समुदायिभिः ततश्च तदेवा. यातं निरवयवो वाक्यवाक्यार्थाविति नैतद्युक्तम, सङ्घातकार्यवत्स्वकार्यस्यापि दर्शनात् , अथ किं संघातकायं किं च स्वकार्य वाक्यार्थप्रतिपत्तिः संघात. कार्यम् स्वकार्य तु पदार्थप्रतिपत्तिः यथा पाकः संघातकार्य स्वकार्य ज्वलनभरणादि काष्ठस्थाल्यादीनाम् ,
ननु यदि पदानां पदार्थप्रतिपादनं स्वकार्य शुद्धस्तहि पदस्यार्थः, न शुद्धः पदार्थः संघातकार्ये एव प्रयोगात्तत्र प्रयुक्तानामप्येषां स्वकार्य न नावगम्यते अत एव न निवरयवं वाक्यमिष्यते स्वकार्यप्रतिज्ञानात्संहतास्ते संघातकार्य कुर्वन्तो दृश्यन्ते न संघात एव संहतेष्वपि कुर्वत्सु स्वकार्य पृथ. पृथगुपलभ्यते यथा शकटाङ्गानामयमंशोऽनेन कृतो ऽयमनेनेति न पृथक् प्र. युज्यमानानि शकटाङ्गानि मनागपि शकटकार्य कुर्वन्तीत्येवं न केवलं पदं प्रयज्यते प्रयुक्तमपि वा न तत्कार्याङ्ग पदान्तरेण तु सह व्यापारात्तदन्धि.