SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् तावत्सो ऽर्थः पदैरभिधीयते, पदान्तरार्थोपरक्त तु तस्मिन्नभिधीयमाने तदर्थेय तैव नावधार्यते कदम्बाकारार्थप्रतीतेः, आवापोद्वापाभ्यां तदवधारणमिति चेन्मैवम् , आवापोद्वापपरीक्षावसरेऽपि कदम्बप्रतीत्यनपायान ह्येकमेव किं चिद्वाक्यमन्विताभिधायिपदप्रथितम् , अन्यत्र तु शुद्ध एव पदानामर्थः किं तु सर्वत्र कदम्बकरूपादुपायात्कदम्बकरूपमुपेयं प्रतीयते इति दुरवगमः पदार्थविभागः, ततश्च पदार्थानामनपेक्षणे गामानयेति वाक्यादश्वबन्धननियोगः प्रतीयते, अपेक्ष्यते तु पदानामर्थः सेो ऽपेक्ष्यमाण इयानिति नियतो ऽवधारयि. तव्यः, तवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते तस्मात्पदपदार्थयारोत्पत्तिक: सम्बन्ध इष्यते, वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्ता भवति इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते सा चानन्त्याद् दुरुपपादेति शब्दव्यवहारोच्छेदः स्यात् , दृश्यते च पदार्थविदामभिनवकविश्लोकादपि वाक्यार्थप्रतीतिः सा पदतदर्थव्युत्पत्त्या ऽवकल्पते वाक्यवाक्यार्थयोस्तु व्युत्प. तापवेक्षमाणायां सा न स्यादेव, तस्मान्नान्विताभिधानम् , अतश्चैवं पदान्तरोच्चारणवैफल्यप्रसङ्गादेकस्मादेव पदात्तदुपरजकद्विती. यपदार्थावगतिः सिद्धव तदपि पदमन्यानुरक्तस्वार्थवाचीत्यनेनैव न्यायेनैकमेव पदमखिलपदाभिधेयार्थवाचि सम्पन्नमिति तेनैव व्यवहारो ऽस्तु न चासो सम्प. द्यते गौरित्युक्ते सर्वगुणक्रियावगमान ज्ञायते किमुपादीयतामिति सर्वागमो ह्यनवगमनिर्विशेष एव व्यवहारानुपपत्तः, न हि रसविदां पूर्णाऽप्यब्धिर्मरोरतिरिच्यते सलिलकार्यानिष्पत्तेः, नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोशब्दस्य न हेतुमुत्पश्यामः, पदान्तरसन्निधानं नियमहेतुरिति चेत् किं स्वरूपमात्रेणार्थप्रतिपादनेन वा स्वरूपमात्रेण जपमन्त्रपदानामिव सन्निधानं भवदप्यसन्निधानान्न विशिष्यते अगृहीतसम्बन्धस्य तत्कृतोपकारादर्शनाद्, अर्थप्रतिपादनेन तु पदान्तरं यदि नियमहेतुः सेो ऽयभिहितानामर्थानामन्वय उक्तो भवति, तस्मात्स एव श्रेयान्पदेभ्यः प्रतिपन्नास्तावदा आकाक्षासन्निधियोग्यत्ववशेन परस्परमभि. सम्बध्यन्ते यो येनाकाङ्कितो यश्च सन्निहितो यश्च सम्बन्धु योग्यः स तेन सम्बध्यते नातो ऽपरः, अत एवाङ्गुल्यग्रे हस्तियूथशतमास्ते इति नास्ति सम्बन्धः योग्यत्वाभावादन्विताभिधानवादिनां तु अन्वितस्यानभिधानात्तत्राप्यन्वयः प्राप्नोति स च नास्ति तस्मादभिहितानामेव पदार्थानामन्वय इति युक्तम्, तदुक्तं 'पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराण्यथेदानीमर्थाअवगता वाक्यार्थ सम्पादयन्ति' इति,
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy