________________
न्यायमञ्जाम्
. अथ वा कृतं स्मरणकल्पनयान्त्यपदार्थज्ञानानन्तरं सकलपदार्थविषयो मांमसो ऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति, तदुपारूढानि पदानि वाक्यं तदुपारूढश्च पदार्थो वाक्यार्थः, तथाविधश्च मानसोऽनुव्यवसायः सकललोकसाक्षित्वादप्रत्याख्येयः,
नन्वन्त्यपदार्थज्ञानानन्तरं किं पूर्वपदतदर्थविषयेण स्मरणेनानुव्यवसायेन वा अन्स्यपदार्थश्चेज् ज्ञातः समाप्तं कर्तव्यं किमन्यदवशिष्टं यव्यवसायेन स्मरणेन वा करिष्यते, एकाकारो हि वाक्यार्थप्रत्ययः प्रत्यात्मवेदनीयो न श. क्यो ऽपह्रोतुम् , न चासौ स्मर्यमाणादनुव्यवसायाद्वा विना सम्पद्यते इत्य. स्ति तदुपयोग इत्थं स्मर्यमाणारूढं संकलनाज्ञानविषयीभूतं चेदं पदनिकुरुम्ब वाक्यं तथाविधश्चैष वाक्यार्थः ।
संसर्गभासकनिरूपणोपक्रमः-- ननु मा भूत्पदस्फोटो वाक्यस्फोटश्च वाचकः । मा च भूतामिमौ वाक्यवाक्यार्थी भागवर्जितौ ॥ भवन्तु भवदाख्याताः पदवाक्यादिकल्पनाः।
पदार्थानां तु संसर्गे मार्गः कः इति कथ्यताम् ।। असंसृष्टा हि गौरश्वः पुरुषो हस्तीति पदार्था न वाक्यार्थभावमधिरोहन्ति, अन्त्यपदार्थज्ञानान्तरभाविना हि स्मरणेन वा ऽनुव्यवसायेन वा विषयीक्रिय- . माणास्ते यथाऽवगता एव विषयीक्रियन्ते संसर्गावगमस्तु कुतस्त्य इति चिन्त्यम्,
संसर्गभाने विप्रतिपत्तिः-- उच्यते अस्स्यत्र विवादः के चिदाचक्षते अन्विता एव पदार्थाः पदैरभिधीयन्ते अन्यथा पदानां वाक्यत्वायोगादिति,
अन्ये मन्यन्ते शुद्धानामेव पदार्थानां पदैरभिधानं ते तु तथाऽभिहिताः सन्तः परस्परमाकाक्षासन्निधियोग्यत्वपर्यालोचनया संसर्गमधिगमयन्तीति,
तत्रेदं विचार्यम्, व्युत्पत्तिबलीयसी न शब्दोऽर्थमवगमयति व्युत्पत्तिमन्त. रेण, व्युत्पत्तिश्च किं वाक्यस्य वाक्याथें पदस्य वा पदार्थे इति, यदि वाक्यस्य वाक्याथे व्युत्पत्तिः तदन्विताभिधानम्, पदस्य पदार्थे व्युत्पत्तावभिहितान्वय इति,
अभिहितान्वयवादनिरूपणम्किं तावत्प्राप्तमभिहितान्वय इति पदार्थप्रतिपत्तिपूर्वकत्वाद्वाक्यार्थप्रतिपत्तेः, न ह्यनवगतपदार्थस्य वाक्यार्थसम्प्रत्ययो दृश्यते पदार्थप्रविभागाच्च गम्यते ऽस्य पदस्य जातिरों ऽस्य द्रव्यमस्य गुणे ऽस्य क्रियेति स चैवमवकल्पते यदि