________________
प्रमाणप्रकरणम्
३६३ न्तरोपरक्त सञ्जातमिति तादृशस्यागृहीतसम्बन्धत्वादर्थप्रतिपत्तिहेतुत्वं न स्यादित्यास्तामपूर्वमिदं शङ्करस्वामिनः पाण्डित्यम् ,
स्वमतेन वाक्यार्थबोधोपपादनम्-- आह यदीमाः सर्वा एव तान्त्रिकरचिताः कल्पना न साधीयस्यश्चेदात्मीया का चन निर्दोषा साध्वी कल्पना निवेद्यताम् , उच्यते न वयमात्मीयामभिः नवां कामपि कल्पनामुत्पादयितुं क्षमाः
न हीयं कविभिः पूर्वैरदृष्टं सूक्ष्मदर्शिभिः ।
शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी ।। कस्तर्हि विद्वन्मतितर्कणीयग्रन्थोपबन्धे तव दोहदो ऽयम् । न दोहदः पर्यनुयोगभूमिः परोपदेशश्च न तस्य शान्तिः ।।
राज्ञा तु गह्वरे ऽस्मिन्नशब्दके बन्धने विनिहतो ऽहम् । प्रन्थरचनाविनोदादिह हि मया वासरा गमिताः ।। तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति, उच्यते चिरातिक्रान्त. त्वमचिरातिक्रान्तत्वं वा न स्मृतिकारणं संस्कारकरणकं हि स्मरणं भवति तच्च सद्यः प्रलीने चिरप्रलीने वा न विशिष्यते इत्येवं पूर्वेषां पदानां चिरतिरोहिता. नामपि व्यवहितोच्चारितानामपि संस्कारात्स्मरणं भविष्यति अन्त्यपदस्यानुभू. यमानत्वोपगमे ज्ञानयोगपद्यादिप्रमादप्रसङ्ग इति वरमन्त्यपदमपि मर्यमाणम. स्तु, स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति, तत्र चेयं कल्पना वर्णक्रमेण तावत्प्रथमपदज्ञानं ततः संकेतस्मरणं संस्कारश्च युगपद्भवतः, ज्ञानयोहि योगपद्यं शास्त्रे प्रतिषिद्धं न संस्कारज्ञानयोः, तत: पदार्थज्ञानं तेनापि सं. स्कारः पुनर्वर्णक्रमेण द्वितीयपदज्ञानं ततः संकेतस्मरणं पूर्वसंस्कारसहितेन च तेन पटुतरः संस्कारः पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं संकेतस्मरणं पूर्वसंस्कारापेक्षः पटुतरः संकार इत्येवं पदज्ञानजनिते पीवरे संस्कारे पदार्थज्ञानज. निते च ताहशि संस्कारे स्थिते ऽन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात्सर्वपदविष. यस्मृतिः पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कारक्रमाक्रमेण द्वे स्मृती भवतः, तत्रैकस्यां स्मृतावुपारूढः पदसमूहो वाक्यमितरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः,
ननु स्मृतेरप्रमाणत्वादप्रमाणमिदानी वाक्यार्थप्रतिपत्तिः, मैवम् तथा सम्बन्धग्रहणाद्यत्र ह्यन्यथा सम्बन्धग्रहणमन्यथा च प्रतिपत्तिः तत्रायं दोषः, यथा धमे गृहीतसम्बन्धे नीहाराहहनानुमितौ, इह तु क्रमवत्तिनां वर्णानामन्यथा प्रत्ययासम्भवाद्यथैव व्युत्पत्तिस्तथैव प्रतीतिरिति न किं चिदवद्यम् , अचि. रनिर्वृत्तानुभवसमनन्तरभाविनी च स्मृतिरनुभवायते,