________________
३६२
न्यायमञ्जर्याम्
हि फलमन्त्यपदावगमसमये सकलपूर्वपदापस्थानं तच्च विनश्यवस्थपूर्वपूर्वपदज्ञानकृतोत्तरोत्तरपदानुरागबलादेव लब्धमिति किं तत्तत्स्मरणेन तदभा बाच्च नात्र ज्ञानयोगपद्यादिचोद्यावसरः समस्ति, यथोपदर्शितान्त्यपदज्ञानमेव च वाक्यार्थज्ञानमिति न चरितार्थत्वमत्रेत्येवं वाक्यादेव वाक्यार्थप्रत्ययः सेत्स्यति पदार्थेभ्य इति,
•
पूवोक्तस्य प्रकारान्तस्य खण्डनम् -
इयमपि न निरवद्या कल्पनेत्यपरे, प्रथमपदोपरागपूर्वक द्वितीयपदज्ञानोपजननानुपपत्तेः, प्रथमपदज्ञानानन्तरं सम्बन्धस्मरणं तेनैव तस्य विनश्यत्ता प दार्थप्रतिपत्तिकाले च पदज्ञानं विनष्टमेव विनश्यदवस्था बुद्धिर्बुद्ध्यन्तरविरोधिनीति सामान्येन श्रवणात्,
अथ ब्रूयात्कार्यभूतया बुद्ध्या कारणभूता बुद्धिर्विरोध्येत न बुद्धिमा बुद्धिमात्रमिति एतदयुक्तम्, विशेषे प्रमाणाभावादभ्युपगम्यापि ब्रूमः कार्यकारभूतयेोरेव बुद्ध्योर्भवतु वध्यविधातकभावः तथापि पदज्ञानं संस्कार इव समयस्मृतः कारणमेव संस्कारेणेव तेनापि विना तदनुत्पादात्, संस्कारप्रबोधे तस्य व्यापार इति चेत् तेनापि द्वारेण यत्कारणं तत्कारणमेव, तदिह पदज्ञानं समयस्मरणं पदार्थज्ञानमिति त्रीणि ज्ञानानि युगपदवतिष्ठन्ते इति परः प्रमादः,
अपि च पदज्ञानमुपजायमानं वर्णक्रमेण जायते न सहसैव निरंशपदवादस्य व्युदस्तत्वात्तत्र च द्वित्राणि त्रिचतुराणि पञ्चषाणि वाक्षराणि क्रमेण
यन्ते तद्विषयाहि क्रमभाविन्य उपजननापायधर्मिकाः बुद्धयः, अत्रान्तरे विनश्यद्वस्थ मन्त्यपदज्ञानमा सिष्यते तदुपरागेण द्वितीयपदज्ञानमुपपत्स्यते इति दुराशैवेयम्,
अपि च व्यवहितोश्चारितेभ्यो ऽपि पदेभ्यो वाक्यार्थप्रत्ययो दृश्यते यत्रा नेककार्यपर्यालोचनव्य प्रहृदयः स्वामी रे कन्दलकेत्युक्त्वा कार्यान्तरं संविधाय 'तुरगं वदति पुनः प्रयोजनान्तराय व्यवहृत्य कल्पितपर्यारणमित्यपि वक्ति पुरन्यत्किमपि कृत्वा ब्रवीत्यानयेति तत्र रे कन्दलक कल्पितपर्याणमश्वमानयेति वाक्यार्थावगमो भवति भवन्मते चासौ दुरुपपादः, पदानुरागस्य तत्रासम्भवात्सर्वपदस्मरणस्य चानभ्युपगमात्
"
किं च न प्रवरमतानुसारिणामिव सम्बन्धविशेषबुद्धिषु विशेषणविशेष्ये द्वे वस्तु आलम्बनम् अपि तु विशेष्यमात्रमुपायभेदादेव प्रतीत्यतिशय इति - स्मिँश्च सत्यपि पूर्वपदानुरागे तत्प्रतिभासाभावात् शुद्धमेव द्वितीयपदज्ञानं संपनमिति किं तदनुरागेण, अतश्चेयमनुपन्ना कल्पना यतो द्वितीयपदस्य स्वार्थे शुद्धमेव संकेतप्रहणं वृत्तं यदा व चित्प्रथमं प्रयुक्तमासीदधुना तु तत्पदं पदा