SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् ते तथाविधपदार्थज्ञानात्संस्कारः ततस्तथैव क्रमेण द्वितीयपदज्ञानं तद. नु समयस्मरणं तेन विनश्यदवस्थेन च द्वितीयपदज्ञानेन तथैव स्वाव. च्छेदेन स्वार्थज्ञानं तेन प्रथमपदार्थज्ञानाहितेन संस्कारेण च दृढतरः संस्कारः पुनर्वर्णक्रमेण तृतीयपदज्ञानं पुन: संकेतस्मरणं संकेतस्मृतिसहायेन तेन विनश्यदवस्थेन स्वार्थेनैव स्वावच्छिन्नं ज्ञानं तेन प्राच्येन च संस्कारेण दृढतरः संस्कारः एवं तावद्यावदन्त्यपदज्ञानात्स्वावच्छिन्नार्थप्रतीतिः ततः पूर्वो पचितान्महतः संस्काराद्विशिष्टसर्व विषयमकस्मरणं यस्य स्वावच्छिनास्सर्वे पू. र्वपदार्था विषयतां प्रतिपद्यन्ते तस्मिन्स्मरणे तथान्त्यपदार्थज्ञाने ऽवच्छेदकत्वेन प्रस्फुरत्पदसमूहो वाक्यमवच्छेद्यत्वेन प्रकाशमानो ऽर्थसमूहो वाक्याथेः, एवं स्मर्यमाणानुभूयमानौ पदपदार्थसमूहौ वाक्यवाक्यार्थावुक्तौ भवतः । उक्तस्य प्रकारान्तरस्य खण्डनम् - एतदपि न विचारक्षमम् , अन्त्यपदार्थप्रतीतिसमये तदवच्छेदकतया प्रतिभासमानं पदं तत्प्रतीतो तावत्कारणमिति नात्र विमतिः, स्वयं च प्रतिभासमानत्वात्कर्मापि भवत्येव, तस्य तदानीं कर्मत्वे कारणं चिन्त्यम् , न श्रोत्रं तावत्कारणम् अन्त्यपदप्रतीत्यनन्तरमेव तद्वयापारस्य विरतत्वाद् विरम्य च पुनव्योंप्रियमाणत्वानुपपत्तेः, मनस्तु बाह्ये विषये स्वातन्त्र्येण प्रवर्तितुमसमर्थम, तत्प्रवृत्तो सर्वाण्येव प्रथमपदात्प्रभृति पदानि मानसव्यवसायगोचरचा. रीणि भवन्तु किं स्मर्यमाणत्वमन्येषामुच्यते, ___ अथ तदन्त्यपदमर्थे इवात्मन्यपि तदवच्छेदकत्वप्रतिपत्तेः करणत्वं प्रति. पत्स्यत इति मन्यसे तय क्तम् , स्वप्रतीतो तस्य कर्मत्वान्न चैकस्यामेव क्रियायां तदेव कर्म करणं च भवितुमर्हति, विस्तरतश्चायं वाचकावच्छिन्नवाच्यप्र. तिभासः प्रत्यक्षलक्षणे प्रतिक्षिप्त इत्यलं पुनस्तद्विमर्दैन । प्रकारान्तरेण वाक्यस्य वाक्याथबोधकत्वोपपादनम् अाह प्रथमं पदज्ञानं ततः संकेतस्मरणं ततः पदार्थज्ञानं पदार्थज्ञानात् पदज्ञानस्य विनश्यत्ता विनश्यवस्थपदशानमपेक्षमाणं श्रोत्रं प्रथमपदाव. च्छेदेन द्वितीयपदे ज्ञानमादधाति द्वितीयपदज्ञानानन्तरं पुनः संबन्धस्मरणं ततः पदार्थज्ञानं तेन द्वितीयपदज्ञानस्य विनश्यत्ता विनश्यदवस्थपद. ज्ञानसहायाच्छोत्रात्तथैव तदवच्छेदेनोत्तरोत्तरपदज्ञानं तावद्यावदन्त्यपदज्ञा. नमिति , तज्ज्ञानानन्तरं च प्राक्तनप्रक्रियावन्नात्र पूर्वपदस्मरणमुपयज्यते तत्फ. लस्य च विनाशदशापतितपदज्ञानकृतावच्छेदमहिम्नैव सिद्धत्वात् , तस्य (१) शावरभाष्ये १०१ पा० १ २० २५ । इयं टिप्पणी ३६७ पृष्ठस्था । ४६ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy