________________
न्यायमचर्याम् रेण सर्वपदविषयमेकस्मरणमुपजन्यते संस्कारस्यैवैकत्वात्सो ऽयं स्मरणानुभवविषयीकृतवर्णसमूहपदसमूहो वाक्यमित्युच्यते ततो वाक्यार्थप्रति. पत्तिः संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषितव्यमन्यथा सर्वत्र क्रि. याभ्यासेो ऽनर्थकः स्यादिति,
उक्तस्य वर्णानां पदवाक्योपगमप्रकारस्य खण्डनम् - अत्र वदन्ति, नेयं प्रक्रिया साध्वी ज्ञानयोगपद्य प्रसङ्गात् , तथा हि चर• मपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं तथा तदैव संकेतस्मरणेनापि भवि. तव्यमनवगतपदार्थस्य हि न वाक्यार्थप्रतीतिरस्मृतसंकेतस्य च न पदा. र्थप्रतीतिः, यत्राप्यभ्यस्ते विषये संकेतस्मृतिनं संवेद्यते तत्राप्यविनाभा. वस्मृतिरिव बलादसौ कल्प्यते अनवगतपदपदार्थसंबन्धस्य नारिकेल द्वीपवासिन इवार्थप्रत्ययाभावात् , संबन्धानुभवस्य च पूर्ववृत्तत्वेनेदानीं स्मरणमुखे. नोपकारित्वात्तस्मादन्त्यपदज्ञानानन्तरं पूर्वपदसमयस्मरणयोर्युगपदुत्पादाज ज्ञा. नयोगपद्यम् ,
अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते तथा तत्स्मृतिकाले पदार्थशानोपजनात्पुनरपि ज्ञानयोगपद्यं न च तदा पदार्थज्ञानं नोदेतीति शक्यते वक्तमविकलतदुपजनकारणसामग्रीसन्निधानात्प्रतिनायकस्य च तदानीमभावात् , पदार्थज्ञानोत्तरकालं तर्हि पूर्वपदस्मरणमस्त्विति चेद् एवं तहि चरमपदज्ञानप्रत्यस्तमयादन्त्यपदरहितं वाक्यं स्यादन्त्यपदज्ञानस्य हि संकेतस्मृतिवेलायां विनश्यत्ता पदार्थज्ञानवेलायां विनाश एव, ___ यत्त यादसंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति स्वस्ति तहि न्याय. विस्तराय, अपि च तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते, पुनरवगमो ऽस्य भविष्यतीति चेत् स कुतस्त्यः, श्रोत्रस्य विरम्य व्यापारासंवे. दनात् , मनसश्च स्वातन्त्र्येण बाह्ये विषये सामर्थ्यासंभवात् , सत्यपि पुन: तदवगमे ज्ञानयोगपद्यानपायात्, ___ अपि च पूर्वपदैरर्थशून्यतया शुष्कनीरसतनुभिरन्त्यपदानुभवसमनन्तरं स्मृतैरपि को गुणः, न हि तथाविधपदस्मरणमर्थप्रत्यायनाङ्गम् , अथ सार्थः कानि प्राश्चि पदानि स्मर्यन्ते तहि समयस्मरणपदार्थज्ञानादिकार्यसांकर्यकृतमने. कशाख प्रतिपदं ज्ञानयोगपद्यमापद्यते इत्यसतीयं कल्पना,
प्रकारान्तरेण वर्णानां पदवाक्यभावोपगमनिरूपणम्-- व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः, वर्णानुगमरूपेण तावत्प्रथमपदज्ञानमुत्पद्यते ततः संकेतस्मरणं तेन विनश्यवस्थेन पदज्ञानेन स्वविषयाव. च्छेदेन पदार्थज्ञानमाधीयते यत्र वाचकावच्छिन्नं वाच्यस्वरूपमवभास.