________________
प्रमाणप्रकरणम्
३५९
स्वयमेव निरस्तत्वाद् , न शब्दो निवृत्तव्यापारत्वात "सामान्यान्यन्यथासिद्धेविशेष गमयन्ति हि" इति न्यायाद् , अर्थापत्तिरिति चेत् किमिदानीमापत्तिगम्यो धर्मः न चैतद्यक्तमिष्टं वा तदिदं सप्तमं प्रमाणमवतरति पदार्थो ना. मेसि तञ्च नेष्टम् अतो न पदार्थनिमित्तको वाक्यार्थप्रत्ययः,
यदप्युक्तम् अन्वयव्यतिरेकाभ्यां पदार्थनिमित्तकत्वं वाक्यार्थस्यावगम्यते इति तत्र पदार्थसंसर्गस्वभावत्वाद्वाक्यार्थस्य सत्यं तत्पूर्वकत्वमिष्यते एव, वा. क्यप्रतिपत्तेस्तु न तज्जन्यत्वं शब्दव्यापारानुपरमात मानसे चापचारे सति पदा. नामपि ग्रहणं नास्त्येव यतः क्षणान्तरे समाहितचेतास्स वक्ति 'नाहमेतदोष. मन्यत्र मे मनो ऽभूत्पुनर्वहि' इति इतरथा हि पदानि स्मृत्वा तदर्थमेवावगच्छेन्न पुनः पृच्छेत्तस्मात्पदार्थानां ग्रहणमेव तत्र वाक्यर्थावगमे निमित्तम् , __ यदपि पश्यतः श्वेतिमारूपमिति तदपि न किञ्चित् , किं प्रत्यक्षेण शुक्लो गौर्गच्छन्न दृश्यते स किं शुक्ला गौः गच्छतीति वाक्यास्यार्थों न भवति, प्रत्यक्षप्रतिभासात्तु प्रत्यक्षार्थ एवासो न वाक्यार्थ इत्युच्यते, एवं श्वेतो ऽश्वो धाव. ति इत्यानुमानिको ऽयं प्रत्ययः पर्वते ऽग्निरितिवद्वाक्यश्रवणात्तु विना न वा. क्यार्थों भवतुमर्हतीत्यलं प्रसङ्गेन,
वाक्याद्वाक्यार्थबोधोपसंहारः-- तस्माद्वर्णेभ्य एव कया चित्कल्पनया पदवाक्यभावामुपगतेभ्यः पदार्थवाक्यार्थसंप्रत्यय इति युक्तम् , तस्मात्पदार्थजन्या न भवति वाक्यर्थबुद्धिरिति सिद्धम , अनुपरतव्यापाराद्वाक्यादेवेयमुद्भवति,
वर्णानां पदवाक्यभावोपगमप्रकार:अाह कया पुनः कल्पनया पदवाक्यभावमुपगता वर्णाः पदार्थवाक्यार्थप्रतीतिमादध्युरिति,
तत्राचार्यास्तावदिमां कल्पनामदीशन प्रथमं वर्णज्ञानं ततः संस्कारः ततो द्वितीयवर्णज्ञानं तेन प्रथमवर्णज्ञानजनितेन च संस्कारेण पटुतरः संस्कारः ततस्तृतीयवर्णज्ञानं तेन प्राक्तनेन संस्कारेण पटुतरः संस्कारः एवं यावदन्त्य. वर्णज्ञानमन्त्यवर्णज्ञानानन्तरं तु ततः संस्कारात्सकलपूर्ववर्णविषयमेकस्मरणं तेनान्त्यवर्णज्ञानस्य विनश्यत्ता विनश्यवस्थग्रहणस्मरणविषयीकृतो वर्णस. मूहः पदमिति ज्ञायते ततः पदज्ञानात्संस्कारः ततस्तथैव वर्णक्रमेण द्वितीयप. दज्ञानं तेन प्रथमपदज्ञानजन्मना च संस्कारेण पटुतरः संस्कारो जन्यते पुनस्तेनैव क्रमेण तृतीयपदज्ञानं तेन प्राक्तनेन च संस्कारेण पोवरतरसंस्कारो जन्यते एवं यावदन्त्यपदज्ञानमन्तरेण स्थवीयसा संस्का