SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३५८ न्यायमञ्जयॉम् संस्कारः कार्यात्कल्प्यते बहवो ऽपि तत एव कल्पयिष्यन्ते कार्यस्य भिन्नत्वात्, यदपि चिरतिराहितवर्णप्रबन्धानुसन्धानं दुर्घटमिति कथितं तदपि न चारु, कया चित्कल्पनया वर्णानामिव पदबुद्धौ पदानामपि वाक्यबुद्धौ उपारोहसम्भवात्, एतच्चानन्तरं दर्शयिष्यते, यदपि विकल्पितं युगपद्वा क्रमेण वा वर्णाः पदवाक्यार्थप्रत्यये व्याप्रियेरन्निति तत्राप्युच्यते यौगपद्यं तावदनभ्युपगमादेव प्रत्युक्तम्, क्रमो ऽप्येवमीदृशो यत्प्रथमं पदार्थमवगमयन्ति ततो वाक्यार्थम्, सो ऽयं हि पदार्थपूर्वक एव वाक्यार्थ उक्तो भवतीति चेन्मैवम्, पदार्थो हि नाम प्रमेयमेव न ते प्रमाणवर्गे निपतन्ति न च पदार्थवाक्यार्थयोरत्यन्तं भेदो येन तयोर्धूमाग्न्योरिव संबन्धग्रहणसापेक्षयेोस्तदनेपक्षयोर्वा रूपदीपयेोरिव प्रत्याय्य प्रत्यायकभावः न हि स्वशरीर एव गम्यगमकवाचोयुक्ति: प्रवर्त्तते, कथं स्वभावात्स्वभावहेतुवादिना बौद्धस्य शिष्य इव निर्वृत्तः, ननु सामान्ये हि पदं वर्त्तते विशेषे व वाक्यमन्यच्च सामान्यमन्ये च विशेषाः, यदुक्तम्, “सामान्यान्य न्यथासिद्धेर्विशेषं गमयन्ति हि " इति व्यतिरेक एव प्रत्याय्यप्रत्यायकयोः, उच्यते बाढमस्त्ययमियान् व्यतिरेकः किं तु विरतव्यापारे चक्षुषीव शब्दे धूमादिवत्प्रमेयात्पदार्थादग्नेरिव वाक्यार्थस्यावगमो नास्ति न हि पदार्थाः प्रमेयीभूतधूमवत्पुनः प्रमाणीभवितुमहन्ति किं तु पदान्येव तत्प्रतिपादनद्वारेण वाक्यार्थप्रतिपत्तौ पर्यवस्यन्ति कथमात्मीयमेव प्रन्थं न बुध्यन्ते भवन्तः । वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादन मिति (१) । अवान्तरव्यापारो हि न कारकस्य प्रधाने व्यापारे कारकतां व्याहन्ति पदानां हि द्वयी शक्तिरभिधात्री तात्पर्यशक्तिश्च तत्राभिधात्री शक्तिरेषां पदार्थेषूपयुक्ता तात्पर्यशक्तिश्च वाक्यार्थे पर्यवस्यतीति, यद्यपि पदानि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि तथापि यदर्थपरणि तत्रानिवृत्तव्यापाराण्येवेति, एवं हि शाब्दता वाक्यार्थप्रत्ययस्य न हास्यते, सर्वात्मना तु विरतव्यापारे शब्दे सा ऽवश्यं होयते शब्दावगतिमूलत्वात्तु शाब्दश्रत्रत्वमपि स्यात्, श्रोत्रस्य पारम्पर्येण मूलत्वात् शब्दे वितरव्यापारे कतमत्तत्प्रमाणं यस्य वाक्यार्थ प्रतीतिः फलमिति न विद्भः, न प्रत्यक्षम् अतीन्द्रियत्वाद्वाक्यार्थस्य, नानुमानं 'न चानुमानमेषा धीः' इत्यादिना ग्रन्थविस्तरेण " (१) श्लोकवात्तिक वाक्याधिकरणे श्लो० ३४३ । तेषां पदानां वाक्यार्थबोधाय प्रवृत्तौ सत्यां पदार्थप्रतिपादनं काष्ठानां पाके प्रवृत्तौ ज्वाला इव नान्तरीयकमित्यर्थः । पदानि पदार्थ प्रतिपाद्य वाक्यार्थबोधं जनयन्तीति भावः ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy