SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रमाण प्रकरणम् दृष्ट | वाक्यविनिर्मुक्ता न पदार्थैविना क चिदिति (१) । 1 तदेषा वाक्यार्थबुद्धिः पदार्थप्रतीतिं न व्यभिचरति व्यभिचरति तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हतीति, यदप्युच्यते प्रत्येकं व्यभिचारात्समुदितानामसाधारण्यान्न पदार्थानां वाक्यार्थावगतिहेतुत्वमिति तदप्ययुक्तम्, प्रत्येकं तावद् गमकत्वं नेष्यते एव समुदितानां त्वसाधारण्यं भवदपि न नः क्षतिकरं न ह्येते लिङ्गवत्सम्बन्धग्रहणमपेक्षमाणा अवबोधका यदसाधारण्यन्नाव कल्पेत किं त्वगृहीतसम्बन्धा अपि आकाङ्क्षासन्निधियोग्यतापर्यालोचनया परस्परं संसृज्यन्ते स एव वाक्यार्थः संसृष्टः पदार्थसमुदाय इतर विशिष्टो वेतर इति, नाप्यशाब्दत्वमित्थं वाक्यार्थप्रतीतेराशङ्कनीयम् शब्दावगतिमूलत्वेन तस्याः शाब्दत्वाच्छब्दात्पदार्थप्रतिपत्तौ वाक्यार्थप्रतिपत्तिरिति सर्वमनवद्यम्, तदुक्तं पदानि हि स्वं स्वमर्थमभिधाय निवृत्त व्यापाराणि अथेदानीमवगताः पदार्था एव वाक्यार्थमवगमयन्ति' इति ( १ )। पदार्थानां वाक्यार्थबोधहेतुत्वनिराकरणम् अत्राभिधीयते न पदार्थेभ्यो वाक्यार्थावगतिरपि तु वाक्यादेव, तथा चायं वाक्यार्थ इति प्रसिद्धो न पदार्थार्थः, यथा हि काल्पनिकवर्णसमूहात्मकं पदं पदार्थ प्रतिपत्तिमादधाति तथा काल्पनिकपदसमूहात्मकं वाक्यं वाक्यार्थप्रतिपत्तिमाधास्यति, ननु पदसमूहात्मकं वाक्यमन्यन्नास्ति किं तु पदान्येव वाक्यं पदानां च स्वार्थे चरितार्थत्वान्न वाक्यार्थसामर्थ्यमित्युक्तं नैतद्युक्तम् पदार्थानामपि चरितार्थत्वात् क तेषां चरितार्थत्वं स्वप्रतिपत्तौ, " ननु पदानि स्वप्रतिपत्तौ चरितार्थीभूय पदार्थप्रतिपत्तिमादधति पुनस्तान्येव कथं वाक्यार्थप्रतिपत्तिमाधास्यन्ति पदार्थास्तु स्वावगतेरूर्ध्व न क चित्परत्र चरितार्था इति वाक्यार्थ बुद्धेर्विधातारो भवन्तु नैतदेवम्, अन्त्यपदस्यान्यत्र चरितार्थत्वाभावात्, अन्त्यपदमेव पूर्वपदस्मरणोपकृतं वाक्यमुच्यते तदर्थश्च पूर्वपदार्थविशिष्टो वाक्यार्थ इत्येके, तस्माद्वाक्यादेव वाक्यार्थप्रत्ययः, यत्त किमेकसंस्कारस्मरणेन कार्यद्वयं पदानि विदधति विभिन्नसंस्कारेण वेति कार्यभेदात्कारणभेदानुमानमिति प्रसिद्ध एष पन्थाः एको ऽप्यतीन्द्रियः ३५७ ( १ ) श्लोकवातिके वाक्याधिकरणे श्लो० ३५८ | श्वेतं के चित्पदार्थ दूरादुपलभमानस्तस्मिन्नेव प्रदेशे देषया अश्वजातिं खुरशब्देन व गतिमनुमाय तेषां गुण. जातिक्रियाणामर्थान्तरान्ययमपेक्षमाणानां योग्यानां परस्परं 'श्वेतोऽवो धावति' इति संसर्ग बुध्यते इति प्रमाणान्तरोपस्थितैरपि पदार्थों वाक्यविनिर्मुक्ता धीर्दृष्टा पदा. विना तु क्वचिन्न दृटेत्यर्थः ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy