________________
न्यायमअर्याम् पदार्थानां वाक्यार्थबोधे हेतुत्वम्एवं स्फोटे प्रतिहते वर्णेषु वाचकेषु स्थितेषु कश्चिदाह बाद वर्णेभ्यः पदार्थ प्रतीतिरस्तु वाक्यार्थप्रतीतौ न तेषां सामर्थ्य कुतस्तर्हि वाक्यार्थावगतिः पदा थेभ्य इत्याह, तथा च वर्णानां पदार्थप्रतिपत्तौ चरितार्थत्वान्न वाक्यार्थे ऽपि सामर्थ्यमपरिग्लानसामर्थ्यास्तु पदार्था आसते ते वाक्यार्थबुद्धेर्विधातारः अर्थापत्त्या हि वणोनां कार्येषु शक्तयः कल्प्यन्ते तत्र पदार्थबुद्धेरन्यथाऽनुपपन्नत्वाद्यथोक्तनीत्या वर्णानां तत्प्रतिपादने शक्तिरवगम्यते वाक्यार्थप्रतीतिः पुनरन्यथाऽ. प्युपपद्यमाना न तत्र तेषां शक्तिमुपकल्पयितुमर्हति,
किं च किमेकमेव संस्कारमादधाना वर्णाः पदार्थ च वाक्यार्थ च बोध. यन्ति भिन्नं वा तत्र च
एकयैव हि संस्कृत्या कथं कार्यद्वयं भवेत् ।
न चैषां पूर्वसंस्कारादन्यो ऽस्तीति प्रतीयते॥ वाक्यार्थप्रतीतेरन्यथा ऽपि भावान्न नानासंस्कारकल्पनाबीजमस्ति, अपि च पदेषु पूर्ववर्णेषु नातिदूरमतिक्रान्तेषु बुद्धयोपसंहर्तुं शक्येषु घटमानमन्त्यवर्णवेलायामनुसन्धानं वाक्येषु पुनरतिचिरतरतिरोहिताक्षरपरम्परानुसन्धान मतिक्लिष्टमदृष्टपूर्वमिति दुर्घटमेतत् , व्यवहितपदोच्चारणे तु दृश्यते वाक्यार्थप्रतीतिर्यत्र पूर्ववर्णानुसन्धानगन्धो ऽपि नास्ति, तस्मान्न वर्णा वाक्यार्थबुद्धिहे. तवः, अपि च पदार्थ वाक्यार्थ च प्रतिपादयन्तो वर्णा युगपत्प्रतिपादयेयुः क्र. मेण वा तत्र सकृदुच्चारितानां युगपदुभयकरणमनुपपन्नम् , अशक्यत्वात्क्रम पक्षे ऽपि पूर्व चेद् वाक्यार्थप्रतिपादनं तदयुक्तम् , अनवगतपदार्थस्य वाक्यार्थप्रत्ययादर्शनात् ,
अथ पूर्व पदार्थप्रतिपादनं ततो वाक्यार्थप्रत्यायनं हन्त तहि पदार्थप्रत्ययादेव वाक्यार्थबुद्धः सिद्धत्वात्किमिति पुनर्व्यापारान्तरे श्रम आश्रीयते, तस्मात्पदार्थप्रतिपादनपयवसितसामध्योनि पदानि पदार्थभ्यस्तु वाक्याथेप्रत्यय इति सिद्धम् ,
अपि च अन्वयव्यतिरेकाभ्यामेवमवगम्यते यत्पदार्थपूर्वको वाक्यार्थ' इति यो हि मानसादपचाराच्छूतेष्वपि पदेषु पदार्थान्नावगच्छति नावगच्छत्येव वाक्यार्थम् , यस्तु अश्रुतेष्वपि पदेषु प्रमाणान्तरत: पदार्थाजानीयाज्जानाती. वासौ वाक्यार्थम् ।
पश्यतः श्वेतिमारूपं हेषाशब्दं च शृण्वतः । खुरविक्षेपशब्दं च श्वेतो ऽश्वो धावतीति धीः ।