________________
प्रमाणमकरणम्
३५५
अपि च पदानामसत्यत्वे किमर्थ एष तद्व्युत्पत्तावियान्प्रयत्नो वृद्धैराधीयते, सत्यमपि सत्योपायतां प्रतिपद्यते इति चेददृष्टत्वादलीका हि दंशादयः सत्यमूर्छाहता येऽचेोदाहृतास्ते तथा न भवन्ति विषाशङ्काया अपि तत्कार्यहेतुस्वात् शङ्का हि नाम बुद्धिः बुद्धिश्च न न कारणम् न चासती बुद्धिः,
यदपि लिप्यक्षराणामसत्यानां सत्यार्थप्रतिपादकत्वमुच्यते तदप्यनभिज्ञभाषितं रेखाः तावत्स्वरूपतः सत्यस्ताश्च खण्डिकेापाध्यायेोपदेश संस्कृतमतेर्वर्णानुमापिका भवन्ति तथा संबन्धग्रहणाद्रेखानुमितेभ्यश्च वर्णेभ्योऽर्थप्रतिपत्तिरिति नासत्यासत्या पायाः, अयं गकार इति तु सामानाधिकरण्यभ्रमो लिङ्गलिङ्गिनेारभेदोपचाराद्यथा प्रस्थमिताः सक्तवः प्रस्थशब्देनेाच्यन्ते तथा रेखातोSपि कारानुमानाद्रेखैव गकार इत्युच्यते, एवमनिष्यमाणे लिप्यनभिज्ञस्यापि ततो ऽर्थप्रतिपत्तिः स्याद्रेखाणामसत्यवर्णात्मनां विद्यमानत्वान्न चैवमस्ति, तस्माद्वर्णानुमानपुरस्सरैव रेखाभ्यो ऽर्थावगतिः अव्यस्तत्वाद्विषयस्य सूदमत्वाच्च कालस्य क्रमो न लक्ष्यते न त्वन्यथा ततो ऽवगतिः, तस्मात्पारमार्थिकत्वात्पदतदर्थानां न निरवयवो वाक्यवाक्यार्थाविति स्थितम्,
यत्पुनर्वाक्यभागपदवर्णापह्नववर्त्मना शब्दब्रह्मैवाद्वयमुपदर्शयितुमुपक्रम्यते तत्र पुरस्तात्सविस्तरं समाधिमभिधास्यामः,
यत्पुनरवादि वाचस्त्रैविध्यं तदपि नानुमन्यन्ते एकैव वैखरी वाग्वागिति प्रसिद्धा हि ।
अन्तःसंकल्पो वर्ण्यते मध्यमा वाक् सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः । बुद्धिर्वाच्यं वाचकं चोल्लिखन्ती रूपं नात्मीयं बोधभावं जहाति ।। पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं विज्ञानस्य हि न प्रकाशवपुषो वाग्रूपता शाश्वती । जाते ऽस्मिन्विषयावभासिनि ततः स्याद्वा ऽवमर्शो गिरो नस्याद्वापि न जातु वाग्विरहिते। बोधा जड़त्वं स्पृशेत् ॥ स्फोटनिराकरणोपसंहारः
तदास्तामियं ब्रह्मचर्चा प्रकृतमनुसराम:
इति विततया वर्णा एते धिया विषयीकृतां
दधति प्रदतां वाक्यत्वं वा त एव च वाचकाः । न च तदपरः स्फोटः श्रोत्रे विभाaaraa
न च विधितेो वाच्ये बुद्धिं विधातुमसौ क्षमः ॥ ६