________________
३५४
न्यायमअर्याम्
नापायदर्शनादनयैव युक्त्या पदभागा अपि प्रकृतिप्रत्ययादयः तात्त्विका इत्यवग. न्तव्यं न कल्पनामात्रप्रतिष्ठाः, वृक्षं वृक्षणेत्यत्र प्रकृत्यर्थानुगमे प्रत्ययार्थो भिद्यते वृक्षं घटमिति प्रत्ययार्थानुगमे प्रकृत्यर्थो भिद्यते तत्र यो ऽर्थो यं शब्दमनु. गच्छति स तस्यार्थ इत्यवसीयते तत्कथमसत्या भागाः,
यत्पुनः कूपसूपयपादौ सत्यपि वर्णानुगमे ऽर्थानुगमो न दृश्यते तेन चाकारणमर्थप्रतीतेवर्णानुगम इत्युक्तम् तदयुक्तम , यतो नान्वयव्यतिरेकाभ्यामनुत्पन्ना प्रतीतिरुत्पाद्यते येन कूपादौ तदुत्पादनमाशङ्कयेत सिद्धायां तु प्रतीतो वाचकभागेयत्तानियमपरिच्छेदे ऽनयोयापारो न चैकत्र वर्णानुगमेऽनुगमो दृष्ट इत्यन्यत्रादृश्यमानो ऽपि हठादापादयितुं युक्तः, रेणुपटलानुगतपिपीलि. कापक्तिद्वारकव्यभिचारोद्भावनमपि न पेशलम् , पांसुपटलविकलपिपीलिकापङक्तिदर्शनेन तस्याः तत्प्रतीतिकारित्वाभावनिश्चयात्, करिकरभतुरगप्र. भृतीनां तु प्रत्येक व्यभिचारे ऽपि बहुप्राणिरूपसामान्यानपायात्तत्तत्कारणमेव धूलिपटलमवगम्यते,
यदप्यश्वकर्णादाववयवार्थलेोपादन्यत्राप्येवमिति कथितं तदपि न चतु. रश्रम, अश्वकर्णशब्दो हि क चिदर्थप्रकरणवशान्न्यग्भवदवयवशक्तितया तिर. स्कृतावयवार्थवन्त्वन्तरव्यक्तौ न सर्वात्मना ऽवयवार्थाभावो व्यस्तत्वेन सामस्त्येन वा पुनः प्रयोगान्तरे तदर्थसंप्रत्ययदर्शनादश्वमारोह कणे कुण्डलमिति व्यस्तयोः प्रयोगः तुरगश्रोत्रे तु प्रतिपिपादयिषिते ऽश्वकर्ण इति समस्तप्रयोगो ऽपि तदर्थोपरित्यागी दृश्यते इति न सर्वात्मना निरर्थका भागा:, ___ यत्पुनरन्वख्यानविसंवादात्प्रकृतिप्रत्ययविभागनियमो नावकल्पते इति एत. दपि न युक्तम् , आप्ततरोक्तीनां प्रामाण्यात् त्रिमुनि व्याकरणमिति पाणिनिमतमेव हि प्रकृतिप्रत्ययविभागमवितथं प्रत्येष्यामः, कियत्यपि चांशे प्रायेण सर्वेषामन्वाख्यातणामविवादः, विकरणादिविसंवादमात्रं त्वकिंचित्करमतः पारमार्थिकत्वात्प्रकृतिप्रत्ययांशयोः न कल्पनामात्रेण पृथक्करणम् ,
यदप्यवर्णि वर्णसमान्यादपि भागज्ञानं दुर्घट कालेनदन्तिनागा इति तदप्यसारम् , स्वरस्मरणादीनां पदभेदावगमोपायानां सम्भवात् , सराम इत्याख्यातस्यान्यत्स्वरादिरूपं नाम्नो ऽन्यत् , नामस्वे ऽपि स इति राम इति च द्वे पदे तयोरन्यद्रपं सह रामेण वत्तत इत्येकपदे ऽप्यन्यद्पमभियोगविशेषवतां सर्व सुभगमिति नाशक्यः पदविभागपरिच्छेदः, ___ यदपि दध्यत्र मध्वत्रेति तथाविधपदरूपादर्शने ऽपि तदर्थसंप्रत्यय इत्युक्तं सोऽपि न दोषः, यतस्ते एवैते पदे इषद्विकृते तत्प्रत्यभिज्ञानाच्चेति के चित् ,
अथवा इगन्तदधिमधुपदवधणन्तयापि विषयान्तरे साधुत्वात्तथैव तद्विधाद् व्युत्पत्तुर्यगन्ते अपि पदे अर्थप्रतिपादके भविष्यत इत्यलमेवंप्रायः कदाशाव्याहृतः,