________________
प्रमाणमकरणम्
३५३
तद्वदिहाभ्युपगम्यमाने नूनं क चिद्वाक्ये सत्त्वमवयवानामेषितव्यम्, चित्रे ऽपि हरिताल सिन्दूरादिरूपं पानके त्वगेलादिरसो ग्रामरागे ऽपि षड्जर्षभगान्धारादिश्वरजातं पृथगवगतमिति न ते निर्भागदृष्टान्ताः, चित्रादिबुद्धयस्तर्हि दृष्टान्ता इति चेत् बाढं वाक्यार्थबुद्धिरपि निर्भागेष्यते एवास्माभिः बुद्धीनां निरंशश्वेन सर्वासामनवयवत्वात्, बुद्धिविषयीकृतस्त्वर्थो दृष्टान्तदाष्टन्तिकयोः सावयव एव, तस्मान्न निर्मागौ वाक्यवाक्यार्थाविति युक्तम्,
यदप्यभ्यधायि वृद्धव्यवहारेण सम्बन्धबुद्धिर्वाक्यवाक्यार्थयेारेव न पदतदर्थयेाः पदेन व्यवहाराभावादिति तदप्यसाधु वाक्यादपि व्युत्पत्तिर्भवन्ती पदार्थ पर्यन्ता भवतीति, एवं हि पदतदर्थसंस्कृतमतेरभिनवविरचितादपि वाक्याद्वाक्यार्थ प्रतीतिरुपपत्स्यते, तदावापोद्वापपरतन्त्रवैचित्र्येण वाक्यानामानन्त्यादशक्या प्रतिवाक्यं व्युत्पत्तिस्मापि नापेक्षिष्यते इतरथा हि सा ऽवश्यमपेदयेत,
यत्तु केवलं पदं न प्रयुज्यते इति तदसत्यमिति तदप्यसत् महावाक्यस्थाने Sवान्तरवाक्यं न प्रयुज्यते इति तदप्यसत्यं स्यात्, स्वार्थे तत्प्रयुज्यते इति चेत्पदमपि स्वार्थे कचित्प्रयुज्यते एव, यत्र पदानामर्थोऽर्थप्रकरणादिना लभ्यते तत्र यावदप्राप्तं पदमेव केवलमुच्चारयन्ति, ग्रन्थग्रहणावसरेषु च स्वरूपावधारणमपि फलवत् वर्णानां मा वा फलवत्वं पदवर्णानां भूत्तथापि रथावयवानामिव रथकार्येष्वपर्याप्त शक्तीनामपि स्वरूपसत्त्वमनिवार्यम्, कार्यान्तराय रथाद्रथावयवाः प्रभवन्तीति चेत् पदवर्णा अपि कार्यान्तरे प्रभविष्यन्ति रथकायैकदेशमात्रां कामपि रथावयवाः कुर्वन्तीति, यदुच्यते पदान्यपि वाक्यकायैकदेशं कमपि कुर्वन्त्येव वर्णा अपि के चिदर्थवन्तो भवन्त्येवेति तस्मानासन्तः पदवणा:,
त्वादि वाक्यस्येव पदानि पदानामिव वर्णा वर्णानामप्यवयवान्तराणि स्युरिति तदिदमपूर्व पाण्डित्यं न हि घटः सावयव इति परमाणुभिरपि सावयवैर्भवितव्यम्, उपलब्ध्यनुपलब्धी हि वस्तूनां व्यवस्थापिके यद्यथोपलभ्यते तत्तथा भवति यद्यथा नापलभ्यते तत्तथा न भवति, वाक्यपदयोश्च भागा उपलभ्यन्ते न वर्णानां तथा ह्युक्तमेतत्
"
अल्पसापि यत्नेन शब्दमुच्चारितं मतिः । यदि वा नैत्र गृह्णाति वर्ण वा सकलं स्फुटमिति (१) ।
तस्माद्वालिशचे। दितमिदं वर्णस्याप्यवयवा भवन्तु पदवाक्ययोरपि वा मा भूवन्निति, अतश्च सावयचौ वाक्यवाक्यार्थी पदेोपजननापायाभ्यां तदर्थोपजन
( १ ) श्लाकवातिके स्फोटवादे श्लो० १० । यदि वर्णाः सावयवाः स्युस्तदा कस्य चिदवयवस्य कदाचिदग्रहणं स्यात्कदाचिन्न स्यान्नैवमस्ति अतो निरवयवाते इति भावः ।
४५ न्या०