________________
३५२
न्यायमअर्याम्
पह्नतमस्थाने एव त्वयं संत्रासः, न हि शब्दत्वं स्फोटः प्रतिवर्ण हि शब्दः शब्दः इति बुद्धिरस्ति न च वर्णः स्फोटः तदिदं शब्दत्वसामान्यमेव शब्दबुद्धेरालम्बनं न स्फोटः, सामान्यसिद्धौ तु व्यक्त्यन्तरानुसन्धानमकारणमिति प्रागेव निर्णीतं तस्मान्न शब्दबुद्धावपि स्फोटो ऽवभासते पदवाक्यबुद्धावित्येतच सत्यमाह यदि. यमेककार्यकारित्वनिबन्धना वनपृतनादिबुद्धिसमानयोगक्षेमैव पदवाक्यबुद्धिरिति, न च जात्यादिष्वसमाश्वासो वैलक्षग्यस्य दर्शितत्वात ,
___ यदप्येक कार्यकारित्वनिवन्धनायामभेदबुद्धावितरेतराश्रयपरिचोदनमेकार्थप्रतातिपूर्विका पदवाक्यबुद्धिः पदवाक्यबुद्धिपूर्विका चैकार्थप्रतीतिरिति तदपि न सम्यक, स्मर्यमाणानुभूयमानवर्णजनितेयमर्थप्रतीतिरित्यवाचाम नाभिनपदपरिच्छेदपूर्वि केति कुत इतरेतराश्रयत्वम् , ब्रयास्पदवाक्ययोरेकत्वमन्तरेण कथं पदवाक्यार्थप्रतीतिरेकरूपा भवेदिति सो ऽयमतीव मुग्धालापः, प्रतीतिभे. दाभेदौ हि विषयभेदाभेदावनुरुध्येते नोपायभेदाभेदौ भिन्नैरपि लोचनालेाका. न्तःकरणप्रभृतिभिरुपायैरभिन्नार्थग्राहिणी बुद्धिरुपजन्यते एव, तदिह पदार्थबु. ढेरेकत्वात्पदार्थ एको भवतु यो ऽस्या विषयः न त्वेकं पदं यत्कारणमिति वाक्यार्थबुद्धेरप्येकत्वादेको वाक्यार्थो भवतु न त्वेकं वाक्यं वर्गीकरणकारणं क्रमभाविनां बहूनां वर्णानामेतद्भवति यदेकार्थप्रतिपादकत्वं न त्वमेदमेव पद. वाक्ययोर्गमयतीति, विप्रलब्धा एव च वैयाकरणा पदवाक्ययोरप्यभेदं मन्यन्ते किल शाब्दादनन्यभूत एव शब्दार्थ इति स पुनरेषां व्यामोहः तद्भदस्य दृढप्रमाणसिद्धत्वात, शब्दाध्यासस्तु प्रतीतिविरुद्वत्वेन नेष्यते इत्यलं तत्कथया तस्मात्प्रत्यक्षगम्यो ऽपि न स्फोट इति सिद्धम् ,
शब्दनिरवयवत्वनिराकरणम्___ नन्वभिन्नत्वाद्वाक्यार्थबुद्धेविषयभेदाभेदानुवृत्तित्वाच्च बुद्धिभेदाभेदयोरभिन्नो वाक्यार्थः स्याद्वाढमभिन्नो न त्वनवयवः पटादेरभिन्नस्यापि सावयवत्वात् , यत्त निरवयवत्वमुच्यते तदतीव संवित्परामर्शकौशलशून्यव्याहृतम् । __अंशाः सन्ति न सन्तीति चिन्तात्यन्तमसङ्गता ।
निरंशस्त्वस्ति नास्तीति युक्तं चिन्तयितुं सताम् ।। पदतदर्थभेदस्य प्रतिवाक्यं विस्पष्टमाभासमानत्वादनुपगृह्यमाणावयववि. भागयोश्च वाक्य वाक्य थियोरनवभासमानत्वाद् अस्त्यवयवप्रतीतिः, सा तु भ्रा. न्तेति चेन्न, बाधकाम वाद् भ्रान्तेश्च बीजं किमपि वक्तव्यम् , सादृश्यमिति चेत्कस्य केनेति न विद्भः यदि हि क चिन्मुख्या अवयवाः प्रसिद्धा भवेयुः तस्मा त्सादृश्यादितरत्र तदभावे ऽपि भ्रम इति गम्यते, न त्वेवमस्ति पूर्ववाक्यानामप्यभागत्वान्नरसिंहे ऽपि नरावयवाः सिंहावयवाश्च पृथक पृथक प्रत्यभिज्ञायन्ते