________________
प्रमाणप्रकरणम्
न मनः, तथापि शब्दत्वेन व्यभिचार इति चेन्न जातिमत्त्वे सतीति प्रक्रमलभ्य. विशेषणापेक्षणात् , स्तनयित्नुनादप्रभृतिभिरपि न व्यभिचारस्तेषां शब्दत्वाभ्युप. गमात् तदुक्तं भाष्यकृता(१) "द्विविधश्चायं शब्दो वर्णात्मा ध्वनिमात्रश्च"इति, अर्थप्रत्यायकत्वं तु न लक्षणमित्युक्तम अगृहीतसंबन्धे वर्णात्मनि शब्दे तद. भावेनाशब्दत्वप्रसङ्गात, कालान्तरेण संबन्धबुद्धौ सत्यां च शब्दत्वमिति अव्य. स्थितमिदं लक्षणम,
यदपि शब्दस्वरूपनिरूपणासङ्गेन तदभिधेयानां जातिगुणक्रियादीनां शब्दत्वाशङ्कनं उत्परिहरणं च तदपि किमाशयमिति न द्विद्भः, तेषामतिविभक्त रूपग्रहणादतः श्रोत्रग्राह्यस्य शब्दत्वात स्फोटस्य च श्रोत्रग्राह्यत्वाभावाद् वर्णवादिनामेव शब्दादर्थ प्रतिपयामहे इत्यनुकूला व्यपदेशेन स्फोटवादिनामिति स्थितम
कथं पुनः श्रोत्रग्रहणत्वं स्फोटस्य न मृष्यते यवता पदं वाक्यमिति श्रोत्र. करणकमेकाकारं ज्ञानं प्रत्यात्मवेदनीयमस्ति न चास्य वर्णा आलम्बनीभवेयु. रित्युक्तम् , न युक्तमुक्तम् इह हि शाबलेयादौ प्रतिपिण्डं गौरिति बुद्धिरुपजाय. भाना सकलपिण्डसाधारणं रूपं विषयीकरोतीति गोत्वसामान्यं तदिष्यते, एवं यदि प्रतिवरण पदं पदमिति बाक्यं वाक्यमिति मतिरुपजायेत जातिवत्तर्हि पदं वाक्यं च सर्ववर्णवृत्ति किमपि रूपमभ्युपगच्छेम न वेवमस्ति प्रतीतिः, यथा च तन्त्वाद्यवयवपरिघट्टितपटादिकार्यविषयमापनयनसन्निपातसमये एव भेदग्रहरहितमवयविज्ञानमुदेति तथा कारसमुच्चरदेकेकवर्णस्वरूपोपग्रह निरपेक्षं यदि पदमिति वाकामिति ज्ञानं भवेत्तत्पटादिकमवयविनमिव पदं वाक्यमेकैकरूपमनु. मन्वेमहि न वेवमस्ति न हि तन्तुभिरिव पटो वणैः पदमारभ्यते,
यत्त गौगौरित्येवं ज्ञानमभेदग्राहि दृश्यते तदेकाजुपाधेः भिन्नाजुपश्लेषे तु देवदत्त इत्यादौ नानाक्षरग्रहणमेव विलम्बितमनुभूयते न चैवं पटादिबद्धिषु तदवयवाः कदा चिद्विच्छेदेनावभासन्ते तस्मान्नावयवीव जातिरिव वा पदं वा. क्यमभिन्नमवभासते,
ननु च या ऽसौ शब्दशब्दाद् बद्धिः सैवेयं स्फोटबुद्धिः, किमिदानीं यदेव शब्दत्वं सामान्यं स एव स्फोटः मैवं स्फोट एवासौन शब्दत्वं सामान्यं तत्सा. मान्यं हि तदुच्यते यत्रैकव्यक्तिदर्शने व्यक्त्यन्तरानुसंधानं शाबलेयग्रहणे बाहु. लेपस्येव इह तु न गकारग्रहणे औकारानुसंधानमिति नेदं सामान्यमेकरूप. स्त्वयं प्रतिभासः शब्दतत्त्वविषय एव शब्दतत्त्वं च स्फोट इत्युच्यते,
आ ज्ञातममुनैव हि भयेन कश्चित् स्फोटशङ्कितः शब्दतत्त्वसामान्यम
(१) न्यायभाष्ये अ१२ आ० २ सू० ४० ।