________________
३५०
न्यायमञ्जर्याम्
अथ ब्रूयादाम्रादयो वनमित्यभेदेनापि वनशब्दः प्रयुज्यते तथेहापि गारादयः शब्द इति प्रयोक्ष्यते एतदपि नास्ति, वनादौ भेदव्यपदेशवशेन प्रतिव्यक्ति चाप्रयेोगेण प्रसिद्धे समुदायशब्दत्वे समुदायिनेोरभेदोपचारादाम्रादयो वनमिति युज्यते प्रयोक्तुमिह तु गकारादीनां शब्द इति न कदा चिदपि व्यतिकनिर्देशो दृश्यते इति समुदायशब्दत्वमघटमानं तत्सर्वथा वर्णशब्दवादिनामनुपपन्नो ऽयं व्यपदेशः शब्दादर्थं प्रतिपद्यामहे इति, उच्यते किमनेनोपपन्ननानुपपन्नेन वा कृत्यम्, यद्ययमुपपद्यते ततः किम् अथापि नोपपद्यते ततो ऽपि किम्, न हि लोकव्यपदेशनिबन्धना वस्तुस्थितिर्भवति,
ननु शास्त्रकारा अप्येवं व्यवहरन्ति भावमाख्यातेनाचष्टे इति न शास्त्रकारव्यवहारादष्याप्रामाणिको ऽर्थः शक्यते ऽभ्युपगन्तुं कतरनेदं प्रमाणं लोकव्यपदेशो नाम, अनुमानं तावतावत्प्रतिक्षिप्तं प्रत्यक्षमपि प्रतिक्षेप्स्यते न चान्यत् स्फोटसिद्धौ प्रमाणं क्रमते तदस्थाने ऽयं लेोकव्यपदेशनिरूपणेन स्फोटाटोपः, न चात्यन्तमसङ्गतो ऽयं वर्णपने लौकिको व्यपदेशः पूर्ववर्णजनितसंस्कारसहिते तावदन्त्यवर्णे वाचके सुसङ्गत एवायं व्यपदेशः, तस्य शब्दत्वादेकत्वाच्च, सङ्कलनाप्रत्यये पारूढवर्णवाचकत्वपत्ते ऽपि न दोषः न हि भेदशब्दसहित एष शब्दशब्दः प्रयुज्यते गकारादिभ्यः शब्दादर्थं प्रतिपद्यामहे केवलस्तु जातिशब्द एकवचनान्तो बहुष्वपि वर्णेषु न विरुद्धः, किं च स्फोटपक्षे सुतरामनुपपन्नो ऽयं व्यपदेशः शब्दादिति, प्रातिपदिकस्यार्थस्याभावान्न हि वर्णवत्स्फोटे शब्दशब्दत्वं प्रयुज्जानो दृश्यते व्यवहर्तृजन: अर्थप्रतिपत्तिहेतुत्वं शब्दलक्षणमसाधु, धूमादिभिर्व्यभिचारात्,
अथापि प्रक्रमपर्यालोचनया श्रोत्रग्राह्यत्वविशिष्टप्रतिपत्तिहेतुत्वम् शब्दल क्ष णमभिधीयते तदिदं स्फोटं प्रति न सिद्धं तस्य श्रोत्रप्रत्ययविषयत्वाभावात्, श्रोत्रग्राह्यत्वमेव च तदितरव्यवच्छेद क्षममिति तदेव युक्तं किमुभयोपादानेन श्रोत्रप्राह्यत्वं च वर्णेष्वेव नार्थान्तरस्येति वर्णा एव शब्दः तदुक्तम्परस्परानपेक्षाश्च श्रोत्रबुद्धया स्वरूपतः ।
वर्णा एवावसीयन्ते न पूर्वापर वस्तुनी इति ( २ ) ॥
श्रोत्रग्राह्यत्वं शब्दलक्षणं सत्तादावप्यस्तीति चेन्न श्रोत्रेणैवेत्यवधारणस्य विवक्षितत्वात्, श्रोत्रमनोभ्यां ग्रहणादसिद्धमवधारणमिति चेन्न समानजातीय. व्यवच्छेदार्थत्वादवधारणस्य विवक्षितत्वात्, चक्षुरादीन्येव तेन व्यवच्छिद्यन्ते
( १ ) श्लोकवार्त्तिके स्फोटवादे श्लो० ९। "गकारौकार विसर्जनीयाः ते च श्रोत्रग्रहणा” इति भाष्ये कारादीनामेव श्रौत्रस्त्रवचनात् पूर्व - वर्णकारणीभूता अवयवाः अपरं गत्वHarवी गोशब्दत्वं समुदायः स्फोटश्च नावगम्यन्ते किन्तु वर्णा एवावगम्यते इत्यर्थः ।